May 29, 2019 | aspundir | 1 Comment ॥ अथ श्रीराधिका सहस्रनाम स्तोत्रम् ॥ इस सहस्रनाम स्तोत्र में पूर्णाभिषेक दीक्षा से मन्त्र व कर्म के ज्ञान हेतु कहा गया है । ॥ ईश्वरोवाच ॥ इति ते कथितं देवि किमन्यत् कथयामि ते । श्रोत्री त्वं परमेशानि अहं वक्ता च शाश्वतः ॥ ॥ देव्युवाच ॥ कियदन्यन्महादेव पृच्छामि यदिहोच्यते । हृदये तव देवेश नानातन्त्राणि सन्ति वै ॥ नानातन्त्राणि मन्त्राणि रहस्यानि पृथक् पृथक् । बहूनि तव देवेश हृदये देव सुव्रत । कृपया परमेशान कथयस्व दयानिधे ॥ ॥ ईश्वरोवाच ॥ पद्मिन्या परमेशानि रहस्यं नास्ति सुन्दरी । त्वयि सर्वं महेशानि कथितं परमेश्वरि ॥ किञ्चिदन्यन्महेशानि नास्ति में गोचरे प्रिये । यद् यद् वदन्ति महेशानि रहस्यं कथितं मया ॥ ॥ देव्युवाच ॥ पद्मिन्याः परमेशान रहस्यं कथय प्रभो । यदि नो कथ्यते देव त्यजामि विग्रहं तदा ॥ ॥ ईश्वरोवाच ॥ शृणु प्रिये कुरङ्गाक्षि एतत् प्रौढं कथं तव । प्रौढत्वं यदि चार्वङ्गि रहस्यं कथयामि ते ॥ रहस्यं शृणु चार्वङ्गि स्तोत्रं परमदुर्लभम् । स्तोत्रं सहस्रनामाख्यमुपविद्यासु सम्मतम् ॥ उपविद्यासु देवेशि अतिगुप्तमनोहरम् । एतत् स्तोत्रं महेशानि पद्मिनीसम्मतं सदा ॥ एतत्तु पद्मिनीस्तोत्रमाश्चर्यं परमाद्भुतम् । यन्नोक्तं सर्वतन्त्रेषु तव भक्त्या प्रकाशितम् ॥ विनियोगः – ॐ अस्य श्रीपद्मिनी सहस्रनाम स्तोत्रस्य श्रीकृष्ण ऋषिः, महिषमर्दिन्यधिष्ठात्रि देवता, गायत्रीच्छन्दो, महाविद्यासिध्यर्थे विनियोगः ॥ ॐ ह्रीं ऐं पद्मिन्यै राधिकायै । राधारमणीरूपा निरुपमरूपवतीरूपधनाविश्या वामा रजोगुणा । रक्ताङ्गी रक्तपुष्यामाराध्या रासपरायणा रम्भावती रूपलीलारञ्जनी रञ्जनीरतिः । रतिप्रिया रमणीया रसपुण्ड्रा रसायना । रासमध्ये रासरूपा रासवेशा रासोत्सुका ॥ रसवती रसोल्लासा रसिका रसभूषणा । रसमालाधरी रङ्गी रक्तपट्टपरिच्छदा ॥ कमला कल्पलतिका कुलव्रतपरायणा । कामिनी कमला कुन्ती कलिकल्लोलनाशिनी ॥ कुलीना कुलवती कामी कामसन्दीपनी तथा । कौमारी कृष्णवनिता कामार्त्ता कामरुपिणी ॥ कामुकी कलुषघ्नी च कुलंज्ञा कुलपण्डिता । कृष्णवर्णा कृशाङ्गी च कृष्णवस्त्रपरिच्छदा ॥ कान्ताकामस्वरूपा च कामरूपा कृपावती । क्षेमा क्षमावती चेव खेलखञ्जनगामिनी ॥ खस्था खगा खगस्थात्री खगणस्य विहारिणी । गरिष्ठा गरिमा गङ्गा गया गोदावरी गतिः ॥ गान्धारी गुणिनी गौरी गङ्गा गोकुलवासिनी । गान्धर्वी गानकुशला गुणागुणविलासिनी ॥ घर्घरा. धर्मदा धर्मा धनस्था धनवासिनी । घृणा घृणावती घोरा घोरकर्मविवर्णिता ॥ चन्द्रा चन्द्रप्रभा चैव चन्द्रमूर्तिपरिच्छदा । चन्द्ररूपा च चन्द्राख्या चञ्चला चारुभूषणा ॥ चतुरा चारुलीला च चम्पा चम्पावती तथा । चन्द्ररेखा चन्द्रकला चारुवेशा विनोदिनी ॥ चन्द्रचन्दनभूषाङ्गी चार्वङ्गी चन्द्रभूषणा । चित्रिणी चित्ररूपा च चित्रमूर्तिधरा सदा ॥ छद्मरुपा छद्मवेशी श्वेतछत्रविधारिणी । छत्रतेपा च छत्राङ्गी छत्रघ्नी छत्रपालिनी ॥ क्षरितामृतधारौधा छद्मवेशनिवासिनी । छटीकृता मरालौधा छरीकृतनिजामृता । जयन्ती च जगन्माता जननी जन्मदायिनी । जया जेत्री च जरती जीवनी जगदम्बिका ॥ जीवाजीवस्वरुपा च जाड्यविध्वंसकारिणी । जगद्योनिर्जगच्छ्रेष्ठा जगद्धेनुर्जगन्मयी ॥ जगदानन्दजननी जनयित्री जनसम्पदात् । झङ्कारवाहिनी झञ्झा झङ्कारनिर्झरावती ॥ टङ्कार टङ्किणी टङ्का टङ्किता टङ्करूपिणी । डम्बरडम्भरा डम्बा डमडम्बा च डम्बुरा ॥ टौकिताशेषनिर्घोषा चलचलितलोचना । तपिनी त्रिपथातीर्थवासिनी त्रिदशेश्वरी ॥ त्रिलोकत्रयी त्रैलोक्यतारिणी तरणे तरुः । तापहन्त्री तपातापा तपनीया तपावती ॥ तापिनी त्रिपुरादेवी त्रिपुराज्ञाकरी सदा । त्रिलक्षा तारिणी तारा तारानायकमोहिनी ॥ त्रैलोक्यगमना तीर्णा तुष्टिता त्वरिता त्वरा । तृष्णा तरङ्गिनी तीर्था त्रिविक्रमविहारिणी ॥ तमोमयी तामसी च तपस्या पतसः कला । त्रैलोक्यव्यापिनी तुष्टा तृप्तिस्तुत्या तुला तथा ॥ त्रैलोक्यमोहिनी तूर्णा त्रैलोक्यविभवप्रदा । त्रिपदी च तथा तथ्या तिमिरध्वंसचन्द्रिका ॥ तेजोरूपा तपः पारा त्रिपुरा त्रिपदस्थिता । त्रयीतन्नी तापहरा तपनाङ्गजवाहिनी ॥ तरिस्तरणिस्तारुण्या तपिता तरणीप्रिया । तीव्रपापहरा तुल्या तूनपापतनूनपात् ॥ दारिद्र्यनाशिनी दात्री दक्षादेया दयावती । दिव्यादिव्यस्वरूपा च दीक्षादक्षादयाद्रवा ॥ दिव्यरुपा दिव्यमूर्तिर्दैत्येन्द्रप्राणनाशिनी । दुता च दुतरूपा च दन्दशूकविनाशिनी ॥ दुर्वारा दमयाद्या च देवकार्यकरी सदा । देवप्रिया देवयोज्या दैवा दैवधिया सदा ॥ दिक्पालपददात्री च दीर्घाद्या दीर्घलोचना । दुष्टद्वेषकामदुधा दोग्धी दूषणवर्जिता ॥ दुग्धा दूसदृशाभाषा दिव्यादिव्यगतिप्रिया । द्यूनदीदीनशरणा दिव्या देहविहारिणी ॥ दुर्गमा दरिमा दामा दूरधनी दूरवासिनी । दुर्विगाद्या दयाधारा दूरसन्तापनाशिनी ॥ दुराशया दुराधारा द्राविणी दुहिना स्तता । दैत्यशुद्धिकरी देवी सदा दानवसिद्धिदा ॥ दुर्बुद्धिनाशिनी देवी सततं दानदायिनी । दानदात्री च देवेशी द्यावाभूमिविगाहिनी ॥ दृष्टिदा दृष्टिफलदा देवतागृहसंस्थिता । दीर्घव्रतकरी दीर्घा दीर्घधर्मा दयावती ॥ दण्डिनी दण्डनीतिश्च दीप्तदण्डधरार्चिता । दानार्चिता द्रवद्रव्या द्रव्यैकनियमापरा ॥ दुष्टसंतापशाम्या च दात्रा दवथुरोधिनी । देवा दिव्यबलवती दान्तादान्तजनप्रिया ॥ दारिद्र्याद्रितटा दुर्गा दुर्गादन्यप्रचारिणी । धर्मरूपा धर्मधूरा धेनुरूपा धृतिर्ध्रुवा ॥ धेनुदाना ध्रुवस्पर्शा धर्मकामार्थमोक्षदा । धर्मिणी धर्ममाता च धर्मधात्री धनुर्द्धरा ॥ धात्री ध्येया धरा धोरी धारिणी धृतकल्मशी । धनदा धर्मदा धन्या धान्यदा धन्यदा धना ॥ धन्या धान्याधिरूपा च धरित्री धनपूरिता । धारणा धनरूपा च धर्माधर्मप्रचारिणी ॥ धर्मिणी धर्मतन्त्रास्या धर्मिम्नामलकेशिनी । धर्मप्रचारनिरता धर्मरूपा धुरन्धरी ॥ धनुर्विद्याधरी धात्री धनुर्विद्याविशारदा । निरानन्दा निराहा च निर्वाणद्वारसंस्थिता ॥ निर्वाणपदवी धात्री नन्दिनी नाकनायिका । नारायणी निषिद्धघ्नी निजरूपप्रकाशिनी ॥ नमस्या निर्दया नन्दनता नूतनरूपिणी । निर्मला निर्मलाभाषा निरख्या निरपत्रपा ॥ नित्यानन्दकामी नित्या नित्यनूतनविग्रहा । निषिद्धा नीतिधैर्या च निर्वाणपददीपिका ॥ निःशङ्का च निरातङ्का निर्नाशितमहामनाः । निर्मला नन्दजननी निर्मलश्यामवेशिनी ॥ निरवद्यकुलश्रेष्ठा नित्यानन्दस्वरूपिणी । निर्णया निर्णयार्पिता निषिद्धकर्मवर्जिता ॥ नित्योत्सवा नित्यतप्ता नमस्कार्या निरञ्जना । निष्ठावती निरातङ्का निर्लेपा निश्चलात्मिका ॥ निरवद्या निरीशा च निरञ्जनपुरस्थिता । पुण्यप्रदा पुण्यकरी पुण्यगर्भा पुरातनी ॥ पुण्यरूपा पुण्यदेहा पुण्याङ्गीता च पावनी । पूजापचित्रा परमापरा पुण्यविभूषणा ॥ पुण्यदात्री पुण्यधारा पुण्यापुण्यप्रवाहिनी । पुण्यदेहा पुण्यवती पूर्णिमा पूर्णचन्द्रमा ॥ पौर्णमासी परा पद्मा पथज्ञा पद्मगन्धिनी । पद्मिनी पद्मवस्त्रा च पद्ममालाधरा सदा ॥ पद्मोद्भवा पराख्या च परमानन्दरूपिणी । प्रकाश्या परमाश्चर्या पद्मगर्भनिवासिनी ॥ पावनी च तथा पूता पवित्रा परमाकला । पद्यार्चिता पद्यसंस्था पद्ममाता पुरातनी ॥ पद्मासनगता नित्या पद्मासनपरिच्छदा । शुक्लपद्मासनगता रक्तपद्मासना तथा ॥ पीतपद्मासनागता कृष्णपद्मस्थिता तथा । पदार्थदायिनी पद्मावनवासपरायणा ॥ प्रकाशिनी प्रगन्ता च पुण्यश्लेका च पावनी । फलहस्ता फलहरा फलिनी फलरूपिणी ॥ फुल्लेन्दीलोचना फुल्ला फुल्लकोरकगन्धिनी । फलिनी फालिनी फेना फुल्लच्छाटितपातका ॥ विश्वमाता च विश्वेशी विश्वाविश्ववरप्रिया । ब्रह्मण्या ब्राह्मणी ब्राह्मी ब्रह्मज्ञा विमलामला ॥ बहुला बाहुला वल्ली वल्लरी वनदायिनी । विभ्रान्ता विक्रमामाला बहुभाग्यविलोचना ॥ विश्वामित्रा विष्णुसखी वैष्णवी विष्णुवल्लभा । विरूपाक्षप्रिया देवी विभूतिर्विश्वतोमुखी ॥ वेदावेदरत्नवाणी वेदाक्षरसमन्विता । विद्या विद्यावती वन्द्या बृहती ब्रह्मवादिनी ॥ वरदा विप्रदृष्टा च वरिष्ठा च विशोधिनी । विद्याधरी वसुमती विप्रवृद्धा विशोधिता ॥ व्योमस्थानवती वामा विधात्री विबुधप्रिया । बुद्धिर्विनाशिनी विद्या ब्रह्मरूपवरानना ॥ वासिनी ब्रह्मजननी ब्रह्महत्यापहारिणी । ब्रह्माविष्णुस्वरूपा च सदा विभववर्द्धिनी ॥ विभाषिणी व्यापिनी च व्यापिका परिचारिका । विपन्नार्तिहरा देवी विनयव्रतधारिणी ॥ विरिञ्चिभयसंहंत्री विपञ्चीवाद्यतत्परा । वेणुवाद्यपरा देवी वेणुश्रुतिपरायणा ॥ वर्चस्वनी बलकरी बलमूला विरस्वती । विपाप्मा विशिखा चैव विकल्पपरिवर्जिता ॥ वृद्धिदा बृहती देवी विधिविच्छन्नसंशया । विचित्राङ्गी विचित्राभा विद्याविभववर्द्धिनी ॥ विगया विनया वन्द्या वामदेवी वरप्रदा । विषघ्नी व विशालाक्षी विज्ञानविन्ध्यमानिनी ॥ रुद्रा भोगवती भव्या भवानी भयवासिनी । भूतधात्री भयहरी भक्तवश्या भयापहा ॥ भक्तिदा भयदा भेरी भक्तदुर्गप्रदायिनी । भागीरथी भानुमती भाग्यदा भगनिर्हिता ॥ भवप्रिया भूततुष्टी भूतिदा भूतभूषणा । भोगोवती भूतिमती भव्यरूपा भ्रमिभ्रमा ॥ भूरिदा भक्तिसुलभा भाग्यवृद्धिकरी सदा । भिक्षुमाता भिक्षुनिया भव्याभव्यस्वरूपिणी ॥ महामाया मातृप्रिया महानन्दा महोदरी । मतिर्मुक्तिर्मनोज्ञा च महामङ्गलदायिनी ॥ महापुण्या महादात्री मैथुनप्रियलालसी । मनोज्ञा मालिनी मान्या मणिमाणिक्यधारिणी ॥ मुनिस्तुता मोहकरी मोहहन्त्री मदोत्कटा । मधुपानरता मद्या सदाघूर्णितलोचना ॥ मधुपानमत्ता च मधुलुब्धा मधुव्रती । मानिनी मालिनी मान्या मनोरथपथातिगा ॥ मोक्षैशऽवर्यप्रदामत्यां महापद्मवनाश्रिता । महाप्रभावा महती मृगाक्षी मीनलोचना ॥ महाकाठिन्यसम्पूर्णा महाक्षी महती कला । मुक्तिरूपा महामुक्ता मणिमाणिक्यभूषणा ॥ मुक्ताफलचित्राङ्गी मुक्तारञ्जितनासिका । महापातकनाशघ्नी मनोनयननन्दिनी ॥ महामाणिक्यरचिता महाभूषणभूषिता । मायावती मोहहन्त्री महाविद्याविधारिणी ॥ महामेधा महाभूतिर्महामायाप्रियतमा । मनोधरी महोपाया महामणिविभूषणा ॥ माहमोहप्रणयिनी महामङ्गलदायिनी । यशस्विनी यशोदा च यमुनावारिहारिणी ॥ योगसिद्धिकरी यज्ञा यज्ञेशवन्दितप्रिया । यज्ञेशयज्ञफलदा यजनीया यशङ्करी ॥ योगयोनिर्योगसिद्धा योगिनी योगबुद्धिदा । योगयुक्ता यमाद्यष्टसिद्धिर्यज्ञैकधारिणी ॥ यमुनाजलसेव्या च यमुनाजलविहारिणी । यामिनी यमुना याम्या यमलोकनिवासिनी ॥ लोलालोकविलासा च लोलात् कल्लोलमालिका । लोलाक्षी लोकमाता च लोकानन्दप्रदायिनी ॥ लोकबन्धुर्लोकधात्री लोकालोकनिवासिनी । लोकत्रयनिवासा च लक्षलक्षणलक्षिता ॥ लीलालोका च लावण्या लघिमा कमलेक्षणा । वासुदेवप्रिया वामा वसन्तसमये प्रिया ॥ वासन्ती वसुदा वज्रा वेणुवादपरायणा । वीणावाद्यप्रमत्ता च वीणानादविभूषणा ॥ वेणुवादरता चैव वंशीनादविभूषणा । शुद्धाशुद्धरतिः शास्तिः शैशवा शान्तिविग्रहा ॥ शीतला शोषिता शोभा शुभदा शुभदायिनी । शिवप्रिया शिवानन्दा शिवपूजासु तत्परा ॥ शिवभृत्या शिवसत्या शिवनित्यपरायणा । श्रीमती श्रीनिवासा च श्रुतिरूपा शुभव्रता ॥ शुद्धविद्याजयकरी शुभकर्मी शुभाशया । श्रुतानन्दा श्रुतिः श्रौत्री शिवप्रेमपरायणा ॥ शोषणी शुभवार्ता च शालिनी शिवनर्तकी । षड्गुणा यूपदाक्रान्त्या षडङ्गश्रुतिरूपिणी ॥ सरसा सुप्रभा सिद्धा सिद्धसिद्धिप्रदायिनी । सेव्या सङ्गा सतिर्मुक्तिर्मूर्तिरूपा मदप्रिया ॥ सम्पत्प्रदा स्तुतिः स्तुत्या स्तवनीया स्तवप्रिया । स्थैर्यदा स्थैर्यगा सौख्या स्त्रैणसौभाग्यदायिनी ॥ सूक्ष्मासूक्ष्मा स्वधा स्वाहा स्वधालोपप्रमोदिनी । स्वर्गप्रिया ससागरा सर्वा पातकनाशिनी ॥ संसारवारिणी राधा सौभाग्यवर्द्धिनी सदा ! हरप्रिया हिरण्याभा हरिलक्ष्मीर्हिरण्मयी ॥ हंसरूपा हरिद्राभा हरिद्वर्णा शुचिस्मिते । क्षमा क्षालिता क्षोभा क्षुद्रघण्टाविधारिणी ॥ जपमेकं शृणु प्रौढे स्वराक्षरसमन्वितम् । स्तोत्रं सहस्रनामाख्यं स्वरव्यञ्जनसंयुतम् ॥ अजरा अतुला अन्ता अनन्तामृतदायिनी । अन्नदाता अशोका च अलका अमृतस्रवा ॥ अनाथवल्लभा अन्ता अयोनिसम्भवा प्रिये । अव्यक्तालक्षणा क्षुण्णा विच्छिन्ना चापराजिता ॥ अनाथानामभीष्टार्थसिद्धिदानन्दवर्धिनी । अणिमादिगुणाधारा अगण्यालिकहारिणी ॥ अचिन्त्यशक्तिवलयाद्भुतरूपा च धारिणी । अद्रिराजसुता दूती अष्टयोगसमन्विता ॥ अच्युता अनवच्छिन्ना अक्षुण्णशक्तिधारिणी । अनन्ततीर्थरूपा च अनन्तामृतरूपिणी ॥ अनन्तमहिमापारा अनन्तसुखदायिनी । अर्थदा अन्नदा अर्था सदा अमृतवर्षिणी ॥ अविद्याजालशमनी अप्रतर्व्यगतिप्रदा । अशेषविघ्नसंहन्त्री अशेषगुणगुम्फिता ॥ अज्ञाननाशिनी देवी अनन्तसिद्धिदायिनी । अशेषपापसंहन्त्री अशेषदेवतामयी ॥ अन्नदाराऽमृतादेवी अज्ञानतिमिरप्रदा । अनुग्रहपरा देवी अभिरामविनोदिनी ॥ अनवद्यपरिच्छिन्ना अत्यनन्तकलङ्किणी । आरोग्यदात्री आनन्दा अपरार्त्तिविनाशिनी ॥ आश्चर्यरूपा आद्यस्था आप्तविद्या सदा प्रिया । आप्यायिनी च आलस्यआपदाहाऽमृतप्रदा ॥ इष्टारतिरिष्टदात्री इष्टापन्नफलप्रदा । इतिहासस्मृतिश्वेता इहासूत्रफलप्रदा ॥ इष्टा च इष्टरूपा च इत्यादिपरिवन्दिता । इन्दिरारचिताक्षी च अलङ्कारविधारिणी ॥ इन्द्राणीसेवितपदा इन्द्रियप्रीतिदायिनी । ईश्वरी ईशजननी ईशऐश्वर्यदायिनी ॥ उत्तङ्कशक्तिसंयुक्ता उपमानविवर्जिता । उत्तमश्लोकसंसेव्या उत्तमोत्तमरूपिणी ॥ उक्षा उषा उधाराधा उर्मिला च शुचिस्मिते । ऊहाऊहवितर्का च ऊर्ध्वधारा च ऊर्ध्वगा ॥ ऊर्ध्वधारा ऊर्ध्वयोनिरूपपापविनाशिनी । ऋषिवृन्दस्तुता ऋद्धिकारणत्रयनाशिनी ॥ ऋतम्भरा ऋद्धिदात्री ऋकथा ऋक्स्वरूपिणी । ऋतुप्रिया ऋक्षमाता ऋक्षार्चिर्ऋक्षमार्गगा ॥ ऋतुलक्षणरूपा च ऋतुमार्गप्रदर्शिणी । एषिताखिलसर्वस्था एकैकायुतदायिनी ॥ ऐश्वर्यतर्प्यरुपा च ऐतिरैन्द्रशिरोमणिः । ओजस्विनी औषधी च ओजोनादौजयायिनी ॥ ओङ्कारजननी देवी ओङ्कारप्रतिपादिका । औदार्यप्रकटा भद्रे औपेन्द्रोषधिविग्रहा ॥ अश्वस्था च अमृता अम्बा अम्बालिका तथा । अम्बुजाक्षी च अन्धाना अम्बुस्निग्धाम्बुजानना ॥ अंशुमाली अंशुमतिरंशीत्यंशांशसम्भवा । अन्धतामिश्रहा भद्रे अत्यन्तशोडिनस्वरा ॥ अर्थेशा अर्थदायिनी अर्थसम्पत्प्रदायिनी । शृणु नामान्तरं भद्रे ककारादि वरानने ॥ अत्यन्तसुन्दरं शुद्धं निर्मलोत्पलगन्धिनी । कूटस्था करुणा कान्ता कर्मजालविनाशिनी ॥ कमला कल्पलतिका कलिकल्मषनाशिनी । कमनीया कला कर्णा कपर्दिपूजनप्रिया ॥ कदम्बकुसुमाभाषा सदा कोकनदेक्षणा । कालिन्दी केलिकलिता कणा कादम्बमालिका ॥ कान्तालोकत्रयातीता कन्थरूपा मनोहरा । खड्गिनी खड्गधाराभा खगाखगेन्दुधारिणी ॥ खेखलेगामिनी खड्गा खड्गेन्दुतलकाष्ठिका । खेचरी खेचरीविद्या खइति ख्यातिदायिनी ॥ खण्डिताशेषपापौघा खलवृद्धिविनाशिनी । खातेन वन्दसन्दोहा खड्गखट्वाङ्गधारिणी ॥ खरसन्तापशमनी खरमा च निकृन्तनी । गुहागन्धगतिर्गौर्वी गन्धर्वनगरप्रिया ॥ गूढरुपा गुणवती गुर्वी गौरवराङ्गिनी । ग्रहपीडाहरा गुप्ता मदस्निग्धमना प्रिया ॥ चाम्पेयलोचना चारु चार्वङ्गी चारुरूपिणी । चन्द्रचन्दनसिक्ताङ्गी चर्वणीया चिरस्थिता ॥ चारुचम्पकमालाढ्या चलिताशेषदुष्कृता । चारिताशेषवृजिला चारुताशेषमस्तला ॥ रक्तचन्दनसिक्ताङ्गी रक्ताङ्गी रक्तमालिका । शुक्लचन्दनसिक्ताङ्गी शुक्लाङ्गी शुक्लमालिका ॥ पीतचन्दनसिक्ताङ्गी पीताङ्गी पीतमालिका । कृष्णचन्दनसिक्ताङ्गी कृष्णाङ्गी कृष्णमालिका ॥ शुक्लवस्त्रपरीधाना शुक्लवस्त्रपरायणी । रक्तवस्त्र परीधाना रक्तवस्त्रोत्तरायणी ॥ पीतवस्त्रपरीधाना पीतवस्त्रोत्तरायणी । कृष्णपट्टपरीधाना कृष्णपट्टोत्तरायणी ॥ वृन्दावनेश्वरी राधा कृष्णकार्यप्रकाशिनी । पद्मिनी नागरी गोपी कालिन्दी अवगाहिनी ॥ गोपिश्वरप्रिया भूत्या सदा नगरमोहिनी । त्रिपुरा त्रिपुरादूती त्रयी त्रिपुरसुन्दरी ॥ त्रिपुरासन्निकर्षस्था त्रिपुराऽनुचारिका । त्रिपुरापुरसंस्था तु या राधा पद्मिनीपरा ॥ नानासौभाग्यसम्पन्ना नानाभरणभूषिता । स्तोत्रं सहस्रनामाख्यं कथितं तव भक्तितः ॥ ॥ फल-श्रुति ॥ एतत् स्तोत्रञ्च मन्त्रञ्च कवचञ्च वरानने । कल्पे कल्पे च देवेशि प्रपठेद्यदि मानवः ॥ उपास्य राधिका विद्यां केवलं कमलेक्षणे । बहुकालेन देवेशि उपविद्याऽपि सिध्यति ॥ पद्मिनी राधिका विद्या उपविद्यासु निश्चिता । महाविद्यां महेशानि उपास्य यत्नतः स्वयम् ॥ प्रकटं परमेशानि राधामन्त्रेण सुन्दरि । शृणु नाम सहस्राणि प्रकटे यत्तु शस्यते ॥ कृष्णस्तु कालिका साक्षात् राधा प्रकृति पद्मिनी । कृष्णराधे गोविन्द इदमुच्चार्य यत्नतः ॥ सदासौ वैष्णवी देवी सर्वत्रैव प्रकाशते । गोविन्दो यस्तु देवेशि स्वयं त्रिपुरसुन्दरी ॥ विना मन्त्रं विना होमं विना पूजां विना क्रियाम् । प्राणायामं विना ध्यानं विना भूतविशोधनम् ॥ विना जापं विना दानं येन राधा प्रसीदति । राधासहस्रनामाख्यस्तोत्रमार्गेण पार्वति ॥ यो जपेद् वैष्णवं मन्त्रं राधिकामन्त्रमेव च । स पतेन्नरके घोरे यावदिन्द्राश्चतुर्दश ॥ श्रुत्वा गुरुमुखान्मन्त्रं वैष्णवंभक्तितत्परः । ततः पुरश्चरीं कुर्यादेकविंशतिसंख्यके ॥ पूर्णाभिषेकसिक्तस्य ततो गुरुपदार्चनम् । विना पूर्णाभिषेकञ्च भवाब्धेः पारमिच्छति ॥ अज्ञस्य तस्य दुर्बुद्धेर्निरयं पतनं भवेत् । सत्यं सत्यं महेशानि सत्यं सत्यं वदाम्यहम् ॥ भवाब्धितरणं नास्ति विना पूर्णाभिषेचनम् । नानागमपुराणादि वेदवेदाङ्गशास्त्रतः ॥ मयोद्भूतं महेशानि सारं पूर्णाभिषेचनम् । तस्मात् सर्वप्रयत्नेन कुर्यात् पूर्णाभिषेचनम् ॥ कृत्वा पूर्णाभिषेकञ्च पठेत् राधास्तवं प्रिये । स्तवपाठान्महेशानि सा भवेद्भवबन्धनः ॥ स्तोत्रं सहस्रनामाख्यं नयस्य जपतोन्मनूम् । राधाकृष्णस्य देवेशि तस्य पापफलं शृणु ॥ कुम्भीपाके स पच्येत यावद् वै ब्रह्मणः शतम् । विमग्नानां यथा श्रेष्ठा भवेद्भागीरथिः प्रिये ॥ वैष्णवानां यथा शम्भुः प्रकृतीनां यथा सती । पुरुषाणां यथा विष्णुर्नक्षत्राणां यथा शशी ॥ स्तवनाच्च तथा श्रेष्ठं राधातन्त्रमिदं प्रिये । जपपूजादिकं यद्यबलिहोमान्तिकन्तथा ॥ श्रीराधास्तोत्रपाठस्य कलां नार्हति षोडशीम् ॥ ॥इति वासुदेवरहस्ये राधातन्त्रे द्वात्रिंशत् पटले श्रीराधा सहस्त्रनामः ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
very good post and nice website, good information ameya jaywant narvekar Neelam jaywant narvekar jaywant mangesh narvekar Reply