August 28, 2015 | aspundir | Leave a comment श्रीमहादेव-प्रोक्तं-मृत-सञ्जीवनी-कवचम् विनियोगः- ॐ अस्य श्रीमृतसञ्जीवनीकवचस्य श्री महादेव ऋषिः, अनुष्टुप् छन्दः, श्रीमृत्युञ्जयरुद्रो देवता ॐ बीजं, जूं शक्तिः, सः कीलकम् मम (अमुकस्य) रक्षार्थं कवचपाठे विनियोगः। ऋष्यादि-न्यासः- श्री महादेव ऋषये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीमृत्युञ्जयरुद्रो देवतायै नमः हृदि, ॐ बीजाय नमः गुह्ये, जूं शक्तये नमः पादयो, सः कीलकाय नमः नाभौ, मम (अमुकस्य) रक्षार्थं कवचपाठे विनियोगाय नमः सर्वांगे। कर-न्यासः- ॐ जूं सः अंगुष्ठाभ्यां नमः। ॐ जूं सः तर्जनीभ्यां स्वाहा। ॐ जूं सः मध्माभ्यां वषट्। ॐ जूं सः अनामिकाभ्यां हुँ। ॐ जूं सः कनिष्ठिकाभ्यां वौषट्। ॐ जूं सः करतल-कर-पृष्ठाभ्यां फट्। हृदयादि-न्यासः- ॐ जूं सः हृदयाय नमः, ॐ जूं सः शिरसे स्वाहा, ॐ जूं सः शिरसे वषट्, ॐ जूं सः-कवचाय हुम्। ॐ जूं सः-त्रयाय वौषट्, ॐ जूं सः अस्त्राय फट्। ध्यान- चन्द्रार्काग्नि-विलोचनं स्मित-मुखं पद्म-द्वयान्तः-स्थितम्। मुद्रा-पाश-मृगाक्ष-सूत्र-विलसत्पाणिं हिमांशु-प्रभम् | कोटीन्दु-प्रगलत्सुधाऽऽप्लुत-तनुं हारादि-भूषोज्ज्वलं कान्तं विश्व-विमोहनं पशुपतिं मृत्युञ्जयं भावयेत् || मूल कवच पाठ वराभयकरो यज्वा सर्वदेव-निषेवितः। मृत्युञ्जयो ,हादेवः प्राच्यां मां पातु सर्वदा।।१ दधानः शक्तिमभयां त्रिमुखः षड्भुजः प्रभुः। सदाशिवोऽग्निरुपी मामाग्नेय्यां पातु सर्वदा।।२ अष्टादशभुजोपेतो दण्डाभयकरो विभुः। यमरुपी महादेवो दक्षिस्यां सदाऽवतु।।३ खड्गाभयकरो धीरो रक्षोगणनिषेवितः। रक्षोरुपी महेशो मां नैऋत्यां सर्वदाऽवतु।।४ पाशाभयभुजः सर्वरत्नाकर-निषेवितः। वरुणात्मा महादेवः पश्चिमे मां सदाऽवतु।।५ गदाभयकरः प्राणनाशकः सर्वदा गतिः। वायव्यां मारुतात्मा मां शंकर पातु सर्वदा।।६ खड्गाभयकरस्थो मां नायकः परमेश्वरः। सर्वात्मान्तरदिग्भागे पातु मां शंकरः प्रभुः।।७ शूलाभयकरः सर्वविद्यानामधिनायकः। ईशानात्मा तथैशान्यां पातु मां परमेश्वरः।।८ ऊर्ध्वभागे ब्रह्मारुपी विश्वात्माऽधः सदाऽवतु। शिरो मे शंकरः पातु ललाटं चन्द्रशेखरः।।९ भ्रूमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु। भ्रूमध्यं गिरिशः पातु कर्णी पातु महेश्वरः।।१० नासिकां मे महादेवः ओष्ठौ पातु वृषध्वजः। जिह्वां मे दक्षिणामूर्तिर्दन्तान् मे गिरिशोऽवतु।।११ मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः। पिनाकी मत्करौ पातु त्रिशूलो हृदयं मम।।१२ पञ्चवक्त्रः स्तनौ पातु जठरं जगदीश्वरः। नाभिं पातु विरुपाक्षः पार्श्वो मे पार्वतीपतिः।।१३ कटिद्वयं गिरिशो मे पृष्ठं मे प्रमथाधिपः। गुह्यं महेश्वरः पातु ममोरु पातु भैरवः।।१४ जानुनी मे जगद्धर्ता जंघे मे जगदम्बिका। पादौ मे सततं पातु लोकवन्द्यः सदाशिवः।।१५ गिरिशः पातु मे भार्या भवः पातु सुतान् मम। मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः।।१६ सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः। यह कवच देव दुर्लभ है। इसका नाम मृतसञ्जीवनी है तथा महादेव ने कहा है। इसका पुरश्चरण १ हजार पाठ से होगा। Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe