August 7, 2019 | aspundir | 1 Comment ॥ श्रीमहाकाल ककाराद्यष्टोत्तर शतनाम स्तोत्रम् ॥ कैलास शिखरे रम्ये, सुखासीनं जगद्गुरुं । प्रणम्य परया भक्त्या, पार्वती परिपृच्छति ॥ ॥ श्रीपार्वत्युवाच ॥ त्वत्तः श्रुतं पुरा देव, भैरवस्य महात्मनः । नाम्नामष्टोत्तरं शतं, ककरादिमभीष्टदम् ॥ गुह्याद् गुह्यतरं गुह्यं, सर्वाभीष्टार्थ साधकम् । तन्मे वदस्व देवेश ! यद्यहं तव वल्लभा । ॥ श्रीशिवोवाच ॥ लक्षवार-सहस्राणि, वारिताऽसि पुनः पुनः । स्त्री स्वभावान्महा देवि ! पुनस्तत्वं त्वं पृच्छसि ॥ रहस्याति रहस्यं च, गोप्याद् गोप्यं महत्तरम् । तत्ते वक्ष्यामि देवेशि ! स्नेहात्तव शुचिस्मिते ॥ कूर्चयुग्मं महाकाल, प्रसीदेति पदद्वयम् । लज्जायुग्मं वह्निजाया, राजराजेश्वरो महान् ॥ अथ मन्त्रः – “हूँ हूँ महाकाल ! प्रसीद प्रसीद ह्रीं ह्रीं स्वाहा ॥” मन्त्रग्रहण मात्रेण, भवेत्सत्यं महाकविः । गद्य-पद्य मयी वाणी, गङ्गा निर्झरिणी यथा ॥ विनियोग :- ॐ अस्य श्रीराजराजेश्वर श्रीमहाकाल ककाराद्यष्टोत्तर शतनाम माला मन्त्रस्य श्रीदक्षिणा कालिका ऋषिः, विराट् छन्दः, श्रीमहाकालः देवता, हूँ बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, सर्वार्थ साधने पाठे विनियोगः । ऋष्यादिन्यास :- शिरसि श्रीदक्षिणा कालिका ऋषये नमः । मुखे विराट् छन्दसे नमः । हृदि श्रीमहाकाल देवतायै नमः । गुह्ये हूँ बीजाय नमः । पादयोः ह्रीं शक्तये नमः । नाभौ स्वाहा कीलकाय नमः । सर्वाङ्गे सर्वार्थ साधने पाठे विनियोगाय नमः । करन्यास :- ह्रां अंगुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः । षडङ्गन्यास :- ह्रां हृदयाय नमः । ह्रीं शिरसे स्वाहा । ह्रूं शिखायै वषट् । ह्रैं कवचाय हुम् । ह्रौं नेत्रत्रयाय वौषट् । ह्रः अस्त्राय फट् । ॥ ध्यानम् ॥ कोटि कालानलाभासं, चतुर्भुजं त्रिलोचनं । श्मशानाष्टक मध्यस्थं, मुण्डाष्टक विभूषितम् ॥ पञ्चप्रेत स्थितं देवं, त्रिशूलं डमरु तथा । खड्गं च खर्परं चैव, वाम दक्षिण योगतः ॥ विभ्रतं सुन्दरं देहं, श्मशान भस्म भूषितम् । नानाशबैः क्रीडमानं, कालिका हृदय स्थितम् ॥ लालयन्तं रतासक्तं, घोरचुम्बन तत्परम् । गृध्र गोमायु संयुक्तं, फेरवीगण संयुतम् ॥ जटापटल शोभाढ्यं सर्वशून्यालय स्थितम् । सर्वशून्यं मुण्ड भूषं, प्रसन्न वदनं शिवम् ॥ ॥ अथ स्तोत्रम् ॥ ॐ कूं कूं कूं कूं शब्दरतः, क्रूं क्रूं क्रूं क्रूं परायणः । कविकण्ठ स्थितः कै ह्रीं, हूँ कँ कँ कवि पूर्णदः ॥ कपाल कज्जल समः, कज्जल प्रिय तोषणः । कपालमालाऽऽभरणः, कपालकर भूषणः ॥ कपाल पात्र सन्तुष्टः, कपालार्घ्य परायणः । कदम्ब पुष्पसम्पूज्यः, कदम्ब पुष्प होमदः ॥ कुलप्रियः कुलधरः, कुलाधारः कुलेश्वरः । कौलव्रतधरः कर्म, कामकेलि प्रियः क्रतुः ॥ कलह ह्रीं मन्त्रवर्णः, कलह ह्रीं स्वरूपिणः । कङ्काल भैरवो देवः, कङ्काल भैरवेश्वरः ॥ कादम्बरी पानरतः, तथा कादम्बरीकलः । कराल भैरवानन्दः, कराल भैरवेश्वरः ॥ करालः कलनाधारः, कपर्दीश वरप्रदः । करवीर प्रिय प्राणः, करवीर प्रपूजनः ॥ कलाधरः कालकण्ठः, कूटस्थः कोटराश्रयः । करुणः करुणावासः, कौतुकी कालिका पतिः ॥ कठिनः कोमलः कर्णः, कृत्तिवास कलेवरः । कलानिधिः कीर्तिनाथः, कामेन हृदयङ्गमः ॥ कृष्णः काशीपतिः कौलः, कूलचूडामणिः कुलः । कालांजन समाकारः, कालांजन निवासिनः ॥ कौपीनधारी कैवर्तः, कृतवीर्यः कपिध्वजः । कामरूपः कामगतिः, कामयोग परायणः । काम सम्मर्दनरतः, कामगेह निवासिनः । कालिका रमणः कालि-नायकः कालिका-प्रियः ॥ कालीशः कालिकाकान्तः, कल्पद्रुम लता मतः । कुलटालाप मध्यस्थः, कुलटासङ्ग तोषितः ॥ कुलटाचुम्बनोद्युक्तः, कुलटाकुच मर्दनः । केरलाचार निपुणः, केरलेन्द्र ग्रह स्थितः ॥ कस्तूरी तिलकानन्दः, कस्तूरी तिलकप्रियः । कस्तूरी होम सन्तुष्टः, कस्तूरी तर्पणोद्यतः ॥ कस्तूरी मार्जनोद्युक्तः, कस्तूरी कुण्डमज्जनः । कामिनी पुष्पनिलयः, कामिनी पुष्पभूषणः ॥ कामिनी कुण्ड संलग्नः, कामिनी कुण्ड मध्यगः । कामिनी मानसाराध्यः, कामिनी मान तोषितः ॥ काममञ्जीर रणितः, कामदेव प्रियातुरः । कर्पूरामोद रुचिरः, कर्पूरामोदधारिणः ॥ कर्पूरमालाऽऽभरणः, कर्पूरार्णव मध्यगः । क्रकसः क्रकसाराध्यः, कलाप पुष्परूपिणः ॥ कुशलः कुशलाकर्णी, कुक्कुरासङ्ग तोषितः । कुक्कुरालय मध्यस्थः, काश्मीर करवीरभृत् ॥ कूटस्थः क्रूर दृष्टिश्च, केशवासक्त मानसः । कुम्भीनस विभूषाढ्यः, कुम्भीनस वधोद्यतः ॥ ॥ फलश्रुति ॥ नाम्नामष्टोत्तर शतं, स्तुत्वा महाकाल देवम् । ककारादि जगद्वन्द्यं, गोपनीयं प्रयत्नतः ॥ य इदं पठते प्रातः, त्रिसन्ध्यं वा पठेन्नरः । वाञ्छितं समवाप्नोति, नात्र कार्या विचारणा ॥ लभते ह्यचलां लक्ष्मी, देवानामपि दुर्लभाम् । पूजाकाले जपान्ते च, पठनीयं विशेषतः ॥ यः पठेत्साधकाधीशः, काली रूपो हि वर्षतः । पठेद्वा पाठयेद्वापि शृणोति श्रावयेदपि ॥ वाचकं तोषयेद्वापि, स भवेद् भैरवी तनुः । पश्चिमाभि मुखं लिङ्गं, वृषशून्यं शिवालयम् ॥ तत्र स्थित्वा पठेन्नाम्नां, सर्वकामाप्तये शिवे । भौमवारे निशीथे च, अष्टम्यां वा निशामुखे ॥ माषभक्त बलिं छागं, कृसरान्नं च पायसं । मद्यं मीनं शोणितं च, दुग्धं मुद्रागुडार्द्रकम् ॥ बलिं दत्वा पठेत्तत्र, कुबेरादधिको भवेत् । पुरश्चरणमेतस्य, सहस्रावृत्तिरुच्यते ॥ महाकालसमो भूत्वा, यः पठे न्निशि निर्भयः । सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ॥ मुक्तकेशो दिशावासः, ताम्बूल पूरिताननः । कुजवारे मध्यरात्रौ, होमं कृत्वा श्मशानके ॥ पृथ्वीशाकर्षणं कृत्वा, नात्र कार्या विचारणा । ब्रह्माण्ड गोले देवेशि ! या काचिज्जगती तले ॥ समस्ता सिद्धयो देवि ! वाचकस्य करे स्थिता । भस्माभिमन्त्रितं कृत्वा, ग्रहग्रस्ते विलेपयेत् ॥ भस्म संलेपनाद् देवि ! सर्वग्रह विनाशनम् । वन्ध्या पुत्रप्रदं देवि ! नात्र कार्या विचारणा ॥ गोपनीयं गोपनीयं, गोपनीयं प्रयत्नतः । स्वयोनिरिव गोप्तव्यं, न देयं यस्य कस्यचित् ॥ ॥ इति श्रीभैरवागमे श्रीशिव पार्वति सम्वादे श्रीमहाकाल ककाराद्यष्टोत्तर शतनाम स्तोत्रम् ॥ विशेषः- यह स्तोत्र केवल अभिषिक्त साधकों के द्वारा पठनीय है । अतः अन्य लोग इससे विरक्त ही रहे, यहीं उत्तम होगा । Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
very good post and nice website, good information ameya jaywant narvekar Neelam jaywant narvekar jaywant mangesh narvekar Reply