August 13, 2025 | aspundir | Leave a comment श्रीगणेश के विविध मन्त्र १ – श्रीमहागणपतिस्वरूप प्रणव- मन्त्र — ‘ॐ’। २- श्रीमहागणपति का प्रणव- सम्पुटित बीज-मन्त्र — ‘ॐ गं ॐ ।’ ३- सबीज गणपति-मन्त्र — ‘ गं गणपतये नमः ।’ ४- प्रणवादि सबीज गणपति-मन्त्र — ‘ॐ गं गणपतये नमः ।’ ५- नाम – मन्त्र — (क) ॐ नमो भगवते गजाननाय । (द्वादशाक्षर) (ख) श्रीगणेशाय नमः । ( सप्ताक्षर ) (ग) ॐ श्रीगणेशाय नमः । (अष्टाक्षर) ६ – उच्छिष्टगणपति-नवार्णमन्त्र — ॐ हस्ति पिशाचि लिखे स्वाहा । विनियोग —ॐ अस्य श्रीउच्छिष्टगणेशनवार्णमन्त्रस्य कङ्कोल ऋषिः, विराट् छन्दः, उच्छिष्टगणपतिर्देवता, अखिलावाप्तये जपे विनियोगः । ७- द्वादशाक्षर उच्छिष्टगणपतिमन्त्र — ॐ ह्रीं गं हस्ति पिशाचि लिखे स्वाहा । विनियोग — ॐ अस्य श्रीद्वादशाक्षरोच्छिष्टगणपतिमन्त्रस्य मनुः ऋषिः, विराट् छन्दः, उच्छिष्टगणपतिर्देवता, गंबीजम्, स्वाहा शक्तिः, ह्रीं कीलकम्, अखिलावाप्तये जपे विनियोगः । ८- एकोनविंशत्यक्षरोच्छिष्टगणपतिमन्त्र — ॐ नम उच्छिष्टगणेशाय हस्ति पिशाचि लिखे स्वाहा । विनियोग — ॐ अस्य श्रीउच्छिष्टगणेशमन्त्रस्य कङ्कोल ऋषिः, विराट् छन्दः, उच्छिष्टगणपतिर्देवता, अखिलावाप्तये जपे विनियोगः । ९- सप्तत्रिंशदक्षरोच्छिष्टगणपतिमन्त्र — ॐ नमो भगवते एकदंष्ट्राय हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने आं क्रीं ह्रीं गं थे थे स्वाहा । विनियोग — ॐ अस्य श्रीउच्छिष्टगणेशमन्त्रस्य गणक ऋषिः, गायत्रीच्छन्दः, उच्छिष्टगणपतिर्देवता, गं बीजम्, ह्रीं शक्तिः, आं क्रीं कीलकम्, ममाभीष्टसिद्ध्यर्थे जपे विनियोगः । १०- द्वात्रिंशदक्षरहरिद्रागणेशमन्त्र — ॐ हुं गं ग्लौं हरिद्रागणपतये वर वरद सर्वजनहृदयं स्तम्भय स्तम्भय स्वाहा । विनियोग — ॐ अस्य श्रीहरिद्रागणनायकमन्त्रस्य मदन ऋषिः, अनुष्टुप् छन्दः, हरिद्रागणनायको देवता, ममाभीष्टसिद्धये जपे विनियोगः । ११-षडक्षरवक्रतुण्डमन्त्र — ॐ वक्रतुण्डाय हुम् । विनियोग — ॐ अस्य श्रीगणेशमन्त्रस्य भार्गव ऋषिः, निचृत् अनुष्टुप् छन्दः, विघ्नेशो देवता, वं बीजम्, यं शक्तिः, ममाभीष्टसिद्ध्यर्थे जपे विनियोगः । १२-एकत्रिंशदक्षरवक्रतुण्डमन्त्र — रायस्पोषस्य दाता निधिदातान्नदो मतः । रक्षोहणो वो बलगहनो वक्रतुण्डाय हुम् ॥ विनियोग — ॐ अस्य श्रीवक्रतुण्डगणेशमन्त्रस्य भार्गव ऋषिः, अनुष्टुप् छन्दः, विघ्नेशो देवता, वं बीजम्, यं शक्तिः, ममाभीष्टसिद्धयर्थे जपे विनियोगः । १३- शक्तिविनायकचतुरक्षरमन्त्र — ॐ ह्रीं ग्रीं ह्रीं । विनियोग — ॐ अस्य श्रीशक्तिविनायकमन्त्रस्य (शक्तिगणाधिप-मन्त्रस्य वा ) भार्गव ऋषिः, विराट् छन्दः, शक्तिगणाधिपो देवता ( शक्तिविनायको देवता वा ), ग्रीं बीजम्, ह्रीं शक्तिः, ममाभीष्टसिद्धये जपे विनियोगः । १४- अष्टाविंशत्यक्षरलक्ष्मीविनायकमन्त्र — ॐ श्रीं गं सौम्याय गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । विनियोग — ॐ अस्य श्रीलक्ष्मीविनायकमन्त्रस्य अन्तर्यामी ऋषिः, गायत्रीच्छन्दः, लक्ष्मीविनायको देवता, श्रीं बीजम्, स्वाहा शक्तिः, ममाभीष्टसिद्धये जपे विनियोगः । १५- त्रयस्त्रिंशदक्षरत्रैलोक्यमोहनकरगणेशमन्त्र — वक्रतुण्डैकदंष्ट्राय क्लीं ह्रीं श्रीं गं गणपते वर वरद सर्वजनं मे वशमानय स्वाहा । विनियोग — ॐ अस्य श्रीत्रैलोक्यमोहनकरगणेशमन्त्रस्य गणक ऋषिः, गायत्रीच्छन्दः, त्रैलोक्यमोहनकरो गणेशो देवता, ममाभीष्टसिद्ध्यर्थे जपे विनियोगः । १६- सिद्धिविनायकमन्त्र — ॐ नमो सिद्धिविनायकाय सर्वकार्यकर्त्रे सर्वविघ्नप्रशमनाय सर्वराज्यवशकरणाय सर्वजनसर्वस्त्रीपुरुषाकर्षणाय श्री ॐ स्वाहा । १७- ऋणहर्तृगणेशमन्त्र — ॐ गणेश ऋणं छिन्धि वरेण्य हुं नमः फट्। १८- ॐ ह्रीं श्रीं क्लीं गौं गः श्रीमन्महागणाधिपतये नमः । १९- ॐ ह्रीं श्रीं क्लीं गौं वरदमूर्तये नमः । २०- ॐ ह्रीं श्रीं क्लीं नमो भगवते गजाननाय । २१- ॐ श्रीं ह्रीं क्लीं गणेशाय ब्रह्मरूपाय चारवे । सर्वसिद्धिप्रदेशाय विघ्नेशाय नमो नमः ॥ ( ३२ अक्षर) २२- बीजाय भालचन्द्राय गणेश परमात्मने । प्रणतक्लेशनाशाय हेरम्बाय नमो नमः ॥ २३- आपदामपहर्तारं दातारं सुखसम्पदाम्। क्षिप्रप्रसादनं देवं भूयो भूयो नमाम्यहम् ॥ २४ – नमो गणपते तुभ्यं हेरम्बायैकदन्तिने । स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २५ – शुक्लाम्बरधरं देवं शशिसूर्यनिभाननम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ २६- नमस्तस्मै गणेशाय ब्रह्मविद्याप्रदायिने । यस्यागस्त्यायते नाम विघ्नसागरशोषणे ॥ २७- यद्भ्रप्रणिहितां लक्ष्मीं लभन्ते भक्तकोटयः । स्वतन्त्रमेकं नेतारं विघ्नराजं नमाम्यहम् ॥ २८ – श्रीगजानन जय गजानन । २९- श्रीगजानन जय गजानन जय जय गजानन । ३० – ह्रीं गं ह्रीं गणपतये नमः । ३१- ॐ वक्रतुण्डाय नमः । (गणेशगायत्री) ३२- महाकर्णाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥ See Also :- भगवान् श्रीगणेश के विभिन्न मन्त्र Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe