May 20, 2019 | aspundir | 1 Comment ॥ राधोपनिषत् ॥ प्रथमः प्रपाठकः ॐ अथ सुषुप्तौ रामः स्वबोधमाधायेव किं मे देवः ? क्वासौ कृष्णो योऽयं मम भ्रातेति ? तस्य का निष्ठा ब्रूहीति । सा वै ह्युवाच । राम शृणु-भूर्भुवः स्वर्महर्जनस्तपः सत्यं तलं वितलं सुतलं रसातलं तलातलं महातलं पातालं एवं पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं ब्रह्माण्डमिति अनन्तकोटिब्रह्माण्डानामुपरि कारणजलोपरि महाविष्णोर्नित्यं स्थानं वैकुण्ठः । स ह पृच्छति-कथं शून्यमण्डले निरालम्बने वैकुण्ठ इति ? साऽनुयुक्ता-पद्मासनासीनः कृष्णध्यानपरायणः शेषदेवोऽस्ति । तस्यानन्तरोमकूपेष्वनन्तकोटिब्रह्माण्डानि अनन्तकोटिकारणजलानि तस्य सप्तकोटिपरिसहस्रपरिमिताः फणाः तदुपरि वैकुण्ठो विष्णुलोक इति । रुद्रलोकः शिववैकुण्ठ इति । दशकोटियोजनविस्तीर्णो रुद्रलोकः । तदुपरि विष्णुलोकः । सप्तकोटियोजनविस्तीर्णो विष्णुलोकः । तदुपरि सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णम् । तदुपरि कृष्णस्य स्थानं गोकुलाढ्यं माथुरमण्डलं महत् पदं सुधामयसमुद्रेणावेष्टितमिति । तत्राष्टदलकेसरमध्ये मणिपीठे सप्तावरणकमिति । स पृच्छति-किं रूपं ? किं स्थानं ? किं पद्मं ? किमन्तःकेसरः ? किमावरणम् ? इत्युक्ते साऽनुयुक्ता-गोकुलाढ्ये माथुरमण्डले वृन्दावनमध्ये सहस्रदलपद्मे षोडशदलमध्ये अष्टदलकेसरे गोविन्दोऽपि श्यामपीताम्बरो द्विभुजो मयूरपिञ्छशिराः वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो निरीहः स चेष्टते विराजत इति । पार्श्वे राधिका चेति । तस्या अंशो लक्ष्मीदुर्गाविजयादिशक्तिरिति । पश्चिमे सम्मुखे ललिता । वायव्ये श्यामला । उत्तरस्मिन् श्रीमती । ऐशान्यां हरिप्रिया । पूर्वस्मिन् विशाला । अग्नेय्यां श्रद्धा । याम्यां पद्मा । नैरृत्यां भद्रा । षोडशदले अग्रे चन्द्रावती । तद्वामे चित्ररेखा । तत्पार्श्वे चित्रकरा । तत्पार्श्वे मदनसुन्दरी । तत्पार्श्वे श्रीमदा । तत्पार्श्वे शशिरेखा । तत्पार्श्वे कृष्णप्रिया । तत्पार्श्वे वृन्दा । तत्पार्श्वे मनोहरा । तत्पार्श्वे योगनन्दा । तत्पार्श्वे परानन्दा । तत्पार्श्वे प्रेमानन्दा । तत्पार्श्वे सत्यानन्दा । तत्पार्श्वे चन्द्रा । तत्पार्श्वे किशोरीवल्लभा । तत्पार्श्वे करुणाकुशला इति । एवं विविधा गोप्यः कृष्णसेवां कुर्वन्तीति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति । मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति ॥ ॥ इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां प्रथमः प्रपाठकः ॥ द्वितीयः प्रपाठकः ॐ साऽनुयुक्ता-तस्य बाह्येषु शतदलपद्मपत्रेषु योगपीठेषु रासक्रीडानुरक्ता गोप्यस्तिष्ठन्ति । एतच्चतुर्द्वारं लक्षसूर्यसमुज्ज्वलम् । तत्र द्रुमाकीर्णम् । तत् प्रथमावरणे पश्चिमे सम्मुखे स्वर्णमण्डपे देवकन्या । द्वितीये सुदामादि । तृतीये किङ्किण्यादि । चतुर्थे लवङ्गादि । पञ्चमे कल्पतरोर्मूले उषा तत्सहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्तवर्णो विष्णुरिति द्वारपालाः । एतद् बाह्यां राधाकुण्डम् । तत्र स्नात्वा राधाङ्गं भवति । ईश्वरस्य दर्शनयोग्यं भवति । यत्र स्नात्वा नारद ईश्वरस्य नित्यस्थलसामीप्ययोग्यो भवति । राधाकृष्णयोरेकमासनम् । एका बुद्धिः । एकं मनः । एकं ज्ञानम् । एक आत्मा । एकं पदम् । एका आकृतिः । एकं ब्रह्म । तस्य समं हेममुरलीं वादयन् हेमस्वरूपामनुरागसंवलितां कल्पतरोर्मूले [आस्ते ।] सुरभिविद्या अक्षमाला श्रुतिरिव परमा सिद्धा सात्त्विकी । शुद्धा सात्त्विकी गुणातीता स्नेहभावरहिता । अत एव द्वयोर्न भेदः । कालमायागुणातीतत्वात् । तद् एव स्पष्टयति अथेति । अथानन्तरं मङ्गले वा । अथ वा श्रीवृन्दावनमध्ये ऋग्यजुःसामस्वरूपम् । ऋगात्मको मकारः । यजुरात्मक उकारः । श्रीरामः सामात्मकोऽपि अकारः । श्रीकृष्णः अर्धमात्रात्मकोऽपि । यशोदा इव बिन्दुः । परब्रह्म सच्चिदानन्दानन्दराधाकृष्णयोः परस्परसुखाभिलाषरसास्वादन इव तत् सच्चिदानन्दामृतं कथ्यते । तल्लक्षणं यत् प्रणवं ब्रह्मविष्णुशिवात्मकमिच्छाज्ञानशक्तिनिष्ठं कायिकवाचिकमानसिकभावं सत्त्वरजस्तमस्वरूपं सत्यत्रेताद्वापरानुगीतम् । द्वापरस्य पश्चाद् वर्तते कलिः । एतच्चतुर्युगेषु गीयते । तद् भूर्भुवःस्वर्लक्षणमोङ्कार एव । यच्चान्यद् अतिरिक्तं कालातीतं तद् अप्योङ्कार एव । सर्वं ह्येतद् ब्रह्म आत्मा सोऽहमस्मि इति धीमहि चिन्तयेमहि । “आदित्यो वा एष एतन् मण्डलं तपति” इति यत् श्वेताख्यं श्वेतद्वीपनाम स्थानं तुरीयातीतं गोकुलमथुराद्वारकाणां तुरीयमेतद् दिव्यं वृन्दावनमिति पुरैवोक्तं सर्वं सम्पत्सम्प्रदायानुगतं यत्र ॥ ॥ इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां द्वितीयः प्रपाठकः ॥ २ ॥ तृतीयः प्रपाठकः ॐ अथानन्तरं भद्रश्रीलोहभाण्डीरमहातालखदिरवकुलकुमुदकाम्यमधुवृन्दावनानि द्वादशवनानि । कालिन्द्याः पश्चिमे सप्तवनानि पूर्वस्मिन् पञ्चवनानि उत्तरस्मिन् गुह्यानि सन्ति । मथुरावनमधुवनमहावनखादिरवनभाण्डीरवननन्दीश्वर- वननन्दवनानन्दवनखाण्डववनपलाशवनाशोकवनकेतक- वनद्रुमवनगन्धमादनवनशेषायिवनश्यामायुवनभुज्युवनदधि- वनवृषभानुवनसङ्केतवनदीपवनरासवनक्रीडावनोत्सुकवनान्येतानि चतुर्विंशतिवनानि नित्यस्थलानि नानालीलयाधिष्ठाय कृष्णः क्रीडति । [तानि वनानि] वसन्तऋतुसेवितानि मन्दादिपवनयुक्तानि [सन्ति]यत्र दुःखं नास्ति सुखं नास्ति जरा नास्ति मरणं नास्ति क्रोधो नास्ति, तत्र पूर्णानन्दमयः श्रीकैशोरकृष्णः शिखण्डिदललम्बितत्रियुमगुञ्जावतंसमणिमयकिरीटशिराः गोरोचनातिलकः कर्णयोर्मकरकुण्डलो वन्यस्रग्वी मालतीदामभूषितशरीरः करे कङ्कणं बाहौ केयूरं पादयोः किङ्किणीं कट्यां पीताम्ब[रं च धारयन्] गम्भीरनाभिकमलः सुवृत्तनासायुगलो ध्वजवज्रादिचिह्नितपादपद्मो महाविष्णु[रास्ते] । एवंरूपं कृष्णचन्द्रं चिन्तयेन् नित्यशः सुधीः ॥ इति ॥ तस्याद्या प्रकृती राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्नाशेषलावण्यसुन्दरी । अस्मदादीनां जन्म तदधीनं अस्यांशाद् बहवो विष्णुरुद्रादयो भवन्ति । एवम्भूतस्यागाधमहिम्नः सुखसिन्धोरुत्पन्नमिति मानसपूजया ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति ॥ इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां तृतीयः प्रपाठकः ॥ ३ ॥ चतुर्थः प्रपाठकः ॐ अथ पुरुषोत्तमो यस्यां निशायां तुरीयं साक्षाद् ब्रह्म । यत्र परमसन्न्यासस्वरूपः कृष्णः कल्पपादपः । यत्र लक्ष्मीर्जाम्बवती राधिका विमला चन्द्रावली सरस्वती ललितादिरिति । साक्षाद् ब्रह्मस्वरूपो जगन्नाथः अहंशेषांशज्योतीरूपः सुदर्शनो भक्तश्च । एवं पञ्चधा विभूतिमिति । यत्र च मथुरा गोकुलं द्वारका वैकुण्ठपुरी रामपुरी यमपुरी नरनारायणपुरी कुबेरपुरी गणेशपुरी शक्रपुरी एता देवतास्तिष्ठन्ति । यत्र रसातलपातालगङ्गारोहिणीकुण्डममृतकुण्डमित्यादि नानापुरी । यत्रान्नं सिद्धान्नम् । शूद्रादिस्पर्शदोषरहितं ब्रह्मादिसंस्कारापेक्षारहितं यत्र श्रीजगन्नाथस्य योगमित्यर्थः । “नाभ्या आसीत्” इति मन्त्रेण, “अन्नपतेऽन्नस्य” इति मन्त्रेण, “अन्नाद्याय व्यूहध्वं सोमो राजाय भागमत्समे सुखं प्रमार्यते यशसा च बलेन च” इति मन्त्रेण, “विश्वकर्मणि स्वाहा” इति मन्त्रेण, “आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम्” इति मन्त्रेण, “पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि स्वाहा” इति मन्त्रेण, “अन्नं ब्रह्म” इति श्रुत्या च कैवल्यमुक्तिरुच्यते । यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यमुक्तिः सिद्धा भूर्भुवःस्वर्महत्तत्त्वमित्यादि यत्र भार्गवी यमुना समुद्रममृतमयं वृन्दावनानि नीलपर्वतगोवर्धनसिंहासनं प्रासादो मणिमण्डपो विमलादिषोडशचण्डिकागोप्यो यत्र समुद्रतीरे च निरन्तरं कामधेनुवृन्दं यत्र नृसिंहादयो देवता आवरणानि यत्र न जरा न मृत्युर्न कालो न भङ्गो न जयो न विवादो न हिंसा न शान्तिर्न स्वप्न एवं लीलाकामशरीरी स्वविनोदार्थं भक्तैः सहोत्कण्ठितैस्तत्र क्रीडति कृष्णः । एको देवो नित्यलीलानुरक्तो भक्तव्यापी भक्तहृद्यन्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुत्या मानसेन सर्वेण नित्यस्थलं प्राप्नोति । नान्येनेति । नान्येनेति । नान्येनेति । इति वेदवचनं भवति । इति वेदवचनं भवति । इति वेदवचनं भवति ॥ इत्याथर्वण्यां पुरुषबोधन्यां पारमहंस्यां चतुर्थः प्रपाठकः ॥ ४ ॥ ॥ इति राधोपनिषत् समाप्ता ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
very good post and nice website, good information ameya jaywant narvekar Neelam jaywant narvekar jaywant mangesh narvekar Reply