June 10, 2019 | aspundir | 1 Comment ॥ अथ गुह्यकाली सहस्रनाम स्तोत्रम् ॥ ॥ पूर्वपीठिका ॥ ॥ देव्युवाच ॥ यदुक्तं भवता पूर्वं प्राणेश करुणावशात् ॥ १ ॥ नाम्नां सहस्रं देव्यास्तु तदिदानीं वदप्रभो । ॥ श्री महाकालोवाच ॥ अतिप्रीतोऽस्मि देवेशि तवाहं वचसामुना ॥ २ ॥ सहस्रनामस्तोत्रं यत् सर्वेषामुत्तमोत्तमम् । सुगोपितं यद्यपि स्यात् कथयिष्ये तथापि ते ॥ ३ ॥ देव्याः सहस्रनामाख्यं स्तोत्रं पापौघमर्दनम् । मह्यं पुरा भुवः कल्पे त्रिपुरघ्नेन कीर्तितम् ॥ ४ ॥ आज्ञप्तश्च तथा देव्या प्रत्यक्षङ्गतया तया । त्वयैतत् प्रत्यहं पाठ्यं स्तोत्रं परमदुर्लभम् ॥ ५ ॥ महापातकविध्वंसि सर्वसिद्धिविधायकम् । महाभाग्यप्रदं दिव्यं सङ्ग्रामे जयकारकम् ॥ ६ ॥ विपक्षदर्पदलनं विपदम्भोधितारकम् । कृत्याभिचारशमनं महाविभवदायकम् ॥ ७ ॥ मनश्चिन्तितकार्यैकसाधकं वाग्मिताकरम् । आयुरारोग्यजनकं बलपुष्टिप्रदं परम् ॥ ८ ॥ नृपतस्करभीतिघ्नं विवादे जयवदर्द्धनम् । परशत्रुक्षयकरं कैवल्यामृतहैतुकम् ॥ ९ ॥ सिद्धिरत्नाकरं श्रेष्ठं सद्यः प्रत्ययकारकम् । नातः परतरं देव्याः अस्त्यन्यत् तुष्टिदं परमं ॥ १० ॥ नाम्नां सहस्रं गुह्यायाः कथयिष्यामि ते प्रिये । यत्पूर्वं सर्वदेवानां मन्त्ररूपतया स्थितम् ॥ ११ ॥ दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । प्राणवत् कण्ठदेशस्थं यत्स्वप्नेऽप्यपरिच्युतम् ॥ १२ ॥ देवर्षीणां मुनीनां च वेदवद्रसनागतम् । सार्वभौममहीपालैः प्रत्यहं यच्च पठ्यते ॥ १३ ॥ मया च त्रिपुरघ्नेन जप्यते यद्दिने दिने । यस्मात् परं नो भविता स्तोत्रं त्रिजगतीतले ॥ १४ ॥ वेदवन्मन्त्रवद् यच्च शिववक्त्रविनिर्गतम् । यन्नान्यतन्त्रागमेषु यामले डामरे न च ॥ १५ ॥ न चान्यसंहिताग्रन्थे नैव ब्रह्माण्डगोलके । संसारसागरं तर्तुमेतत् पोतवदिष्यते ॥ १६ ॥ नानाविधमहासिद्धिकोषरूपं महोदयम् । या देवी सर्वदेवानां या माता जगदोकसाम् ॥ १७ ॥ या सृर्ष्टिकर्त्रीं देवानां विश्वावित्री च या स्मृता । या च त्रिलोक्याः संहर्त्री या दात्री सर्वसम्पदाम् ॥ १८ ॥ ब्रह्माण्डं या च विष्टभ्य तिष्ठत्यमरपूजिता । पुराणोपनिषद्वेद्या या चैका जगदम्बिका ॥ १९ ॥ यस्याः परं नान्यदस्ति किमपीह जगत्त्रये । सा गुह्यास्य प्रसादेन वशीभूतेव तिष्ठति ॥ २० ॥ अत एव महत्स्तोत्रमेतज्जगति दुर्लभम् । पठनीयं प्रयत्नेन परं पदमभीप्सुभिः ॥ २१ ॥ किमन्यैः स्तोत्रविस्तारैर्नायं चेत् पठितोऽभवत् । किमन्यैः स्तोत्रविस्तारैरयं चेत् पठितो भवेत् ॥ २२ ॥ दुर्वाससे नारदाय कपिलायात्रये तथा । दक्षाय च वसिष्ठाय संवर्ताय च विष्णवे ॥ २३ ॥ अन्येभ्योऽपि देवेभ्योऽवदं स्तोत्रमिदं पुरा । इदानीं कथयिष्यामि तव त्रिदशवन्दिते ॥ २४ ॥ इदं शृणुष्व यत्नेन श्रुत्वा चैवावधारय । धृत्वाऽन्येभ्योऽपि देहि त्वं यान् वै कृपयसे सदा ॥ २५ ॥ विनियोगः— ॐ अस्य श्रीगुह्यकालीसहस्रनाम स्तोत्रस्य श्रीत्रिपुरघ्न ऋषिः, अनुष्टुप् छन्दः, एकवक्त्रादिशतवक्त्रान्ता श्रीगुह्यकालीदेवता, फ्रूं बीजं । ख्रैं ख्रैं शक्तिः, छ्रीं ख्रीं कीलकं, पुरुषार्थचतुष्टयसाधनपूर्वक श्रीचण्डयोगेश्वरी प्रीत्यर्थे जपे विनियोगः । ॥ अथ श्रीगुह्यकालीसहस्रनामस्तोत्रम् ॥ ॐ फ्रें कराली चामुण्डा चण्डयोगेश्वरी शिवा । दुर्गा कात्यायनी सिद्धिविकराली मनोजवा ॥ १ ॥ उल्कामुखी फेरुरावा भीषणा भैरवासना । कपालिनी कालरात्रिर्गौरी कङ्कालधारिणी ॥ २ ॥ श्मशानवासिनी प्रेतासना रक्तोदधिप्रिया । योगमाता महारात्रिः पञ्चकालानलस्थिता ॥ ३ ॥ रुद्राणी रौद्ररूपा च रुधिरद्वीपचारिणी । मुण्डमालाधरा चण्डी बलवर्वरकुन्तला ॥ ४ ॥ मेधा महाडाकिनी च योगिनी योगिवन्दिता । कौलिनी कुरुकुल्ला च घोरा पिङ्गजटा जया ॥ ५ ॥ सावित्री वेदजननी गायत्री गगनालया । नवपञ्चमहाचक्रनिलया दारुणस्वना ॥ ६ ॥ उग्रा कपर्दिगृहिणी जगदाद्या जनाश्रया । कालकर्णी कुण्डलिनी भूतप्रेतगणाधिपा ॥ ७ ॥ जालन्धरी मसीदेहा पूर्णानन्दपतङ्गिनी । पालिनी पावकाभासा प्रसन्ना परमेश्वरी ॥ ८ ॥ रतिप्रिया रोगहरी नागहारा नगात्मजा । अव्यया वीतरागा च भवानी भूतधारिणी ॥ ९ ॥ कादम्बिनी नीलदेहा काली कादम्बरीप्रिया । माननीया महादेवी महामण्डलवर्तिनी ॥ १० ॥ महामांसाशनीशानी चिद्रूपा वागगोचरा । यज्ञाम्बुजामनादेवी दर्वीकरविभूषिता ॥ ११ ॥ चण्डमुण्डप्रमथनी खेचरी खेचरोदिता । तमालश्यामला तीव्रा तापिनी तापनाशिनी ॥ १२ ॥ महामाया महादंष्ट्रा महोरगविराजिता । लम्बोदरी लोलजटा लक्ष्म्यालक्ष्मीप्रदायिनी ॥ १३ ॥ धात्री धाराधराकारा धोरणी धावनप्रिया । हरजाया हराराध्या हरिवक्त्रा हरीश्वरी ॥ १४ ॥ विश्वेश्वरी वज्रनखी स्वरारोहा बलप्रदा । घोणकी घर्घरारावा घोराघौघप्रणाशिनी ॥ १५ ॥ कल्पान्तकारिणी भीमा ज्वालामालिन्यवामया । सृष्टिः स्थितिः क्षोभणा च कराला चापराजिता ॥ १६ ॥ वज्रहस्तानन्तशक्तिर्विरूपा च परापरा । ब्रह्माण्डमर्दिनी प्रध्वंसिनी लक्षभुजा सती ॥ १७ ॥ विद्युज्जिह्वा महादंष्ट्रा छायाध्वरसुताद्यहृत् । महाकालाग्निमूर्तिश्च मेघनादा कटङ्कटा ॥ १८ ॥ प्रदीप्ता विश्वरूपा च जीवदात्री जनेश्वरी । साक्षिणी शर्वरी शान्ता शममार्गप्रकाशिका ॥ १९ ॥ क्षेत्रज्ञा क्षेपणी क्षम्याऽक्षता क्षामोदरी क्षितिः । अप्रमेया कुलाचारकर्त्री कौलिकपालिनी ॥ २० ॥ माननीया मनोगम्या मेनानन्दप्रदायिनी । सिद्धान्तखनिरध्यक्षा मुण्डिनी मण्डलप्रिया ॥ २१ ॥ बाला च युवती वृद्धा वयोतीता बलप्रदा । रत्नमालाधरा दान्ता दर्वीकरविराजिता ॥ २२ ॥ धर्ममूर्तिर्ध्वान्तरुचिर्धरित्री धावनप्रिया । सङ्कल्पिनी कल्पकरी कलातीता कलस्वना ॥ २३ ॥ वसुन्धरा बोधदात्री वर्णिनी वानरानरा(नना) । विद्या विद्यात्मिका वन्या बन्धनी बन्धनाशिनी ॥ २४ ॥ गेया जटाजटरम्या जरती जाह्नवी जडा । तारिणी तीर्थरूपा च तपनीया तनूदरी ॥ २५ ॥ तापत्रयहरा तापी तपस्या तापसप्रिया । भोगिभूष्या भोगवती भगिनी भगमालिनी ॥ २६ ॥ भक्तिलभ्या भावगम्या भूतिदा भववल्लभा । स्वाहारूपा स्वधारूपा वषट्कारस्वरूपिणी ॥ २७ ॥ हंसा(हन्ता) कृतिर्नमोरूपा यज्ञादिर्यज्ञसम्भवा । स्फ्यसूर्प(स्प्यसृर्प)चमसाकारा स्रक्स्रुवाकृतिधारिणी ॥ २८ ॥ उद्गीथहिंकारदेहा नमः स्वस्तिप्रकाशिनी । ऋग्यजुः सामरूपा च मन्त्रब्राह्मणरूपिणी ॥ २९ ॥ सर्वशाखामयी खर्वा पीवर्युपनिषद्बुधा । रौद्री मृत्युञ्जयाचिन्तामणिर्वैहायसी धृतिः ॥ ३० ॥ तार्तीया हंसिनी चान्द्री तारा त्रैविक्रमी स्थितिः । योगिनी डाकिनी धारा वैद्युती विनयप्रदा ॥ ३१ ॥ उपांशुर्मानसी वाच्या रोचना रुचिदायिनी । सत्वाकृतिस्तमोरूपा राजसी गुणवर्जिता ॥ ३२ ॥ आदिसर्गादिकालीनभानवी नाभसी तथा । मूलाधारा कुण्डलिनी स्वाधिष्ठानपरायणा ॥ ३३ ॥ मणिपूरकवासा च विशुद्धानाहता तथा । आज्ञा प्रज्ञा महासंज्ञा वर्वरा व्योमचारिणी ॥ ३४ ॥ बृहद्रथन्तराकारा ज्येष्ठा चाथर्वणी तथा । प्राजापत्या महाब्राह्मी हूं हूङ्कारा पतङ्गिनी ॥ ३५ ॥ राक्षसी दानवी भूतिः पिशाची प्रत्यनीकरा । उदात्ताप्यनुदात्ता च स्वरिता निःस्वराप्यजा ॥ ३६ ॥ निष्कला पुष्कला साध्वी सा नुता खण्डरूपिणी । गूढा पुराणा चरमा प्राग्भवी वामनी ध्रुवा ॥ ३७ ॥ काकीमुखी साकला च स्थावरा जङ्गमेश्वरी । ईडा च पिङ्गला चैव सुषुम्णा ध्यानगोचरा ॥ ३८ ॥ सर्गा विसर्गा धमनी कम्पिनी बन्धनी हिता । सङ्कोचिनी भासुरा च निम्ना दृप्ता प्रकाशिनी ॥ ३९ ॥ प्रबुद्धा क्षेपणी क्षिप्ता पूर्णालस्या विलम्बिता । आवेशिनी घर्घरा च रूक्षा क्लिन्ना सरस्वती ॥ ४० ॥ स्निग्धा चण्डा कुहूः पूषा वारणा च यशस्विनी । गान्धारी शङ्खिनी चैव हस्तिजिह्वा पयस्विनी ॥ ४१ ॥ विश्वोदरालम्बुषा च बिभ्रा तेजस्विनी सती । अव्यक्ता गालनी मन्दा मुदिता चेतनापि च ॥ ४२ ॥ द्रावणी चपला लम्बा भ्रामरी मधुमत्यपि । धर्मा रसवहा चण्डी सौवीरी कपिला तथा ॥ ४३ ॥ रण्डोत्तरा कर्षिणी च रेवती सुमुखी नटी । रजन्याप्यायनी विश्वदूता चन्द्रा कपर्दिनी ॥ ४४ ॥ नन्दा चन्द्रावती मैत्री विशालापि च माण्डवी । विचित्रा लोहिनीकल्पा सुकल्पा पूतनापि च ॥ ४५॥ धोरणी धारणी हेला धीरा वेगवती जटा । अग्निज्वाला च सुरभी विवर्णा कृन्तनी तथा ॥ ४६ ॥ तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । तपस्विनी स्वप्नवहा संमोहा कोटरा चला ॥ ४७ ॥ विकल्पा लम्बिका मूला तन्द्रावत्यपि घण्टिका । अविग्रहा च कैवल्या तुरीया चापुनर्भवा ॥ ४८ ॥ विभ्रान्तिश्च प्रशान्ता च योगिनिः श्रेण्यलक्षिता । निर्वाणा स्वस्तिका वृद्धिर्निवृत्तिश्च महोदया ॥ ४९ ॥ बोध्याऽविद्या च तामिस्रा वासना योगमेदिनी । निरञ्जना च प्रकृतिः सत्तारव्या पारमार्थिकी ॥ ५० ॥ प्रतिबिम्बनिराभासा सदसद्रूपधारिणी । उपशान्ता च चैतन्या कूटा विज्ञानमय्यपि ॥ ५१ ॥ शक्तिविद्या वासिता च मोदिनी मुदितानना । अनया प्रवहा व्याडी सर्वज्ञा शरणप्रदा ॥ ५२ ॥ वारुणी मार्जनीभाषा प्रतिमा बृहती खला । प्रतीच्छा प्रमितिः प्रीतिः कुहिका तर्पणप्रिया ॥ ५३ ॥ स्वस्तिका सर्वतोभद्रा गायत्री प्रणवात्मिका । सावित्री वेदजननी निगमाचारबोधिनी ॥ ५४ ॥ विकराला कराला च ज्वालाजालैकमालिनी । भीमा च क्षोभणानन्ता वीरा वज्रायुधा तथा ॥ ५५ ॥ प्रध्वंसिनी च मालङ्का विश्वमर्दिन्यवीक्षिता । मृत्युः सहस्रबाहुश्च घोरदंष्ट्रा वलाहकी ॥ ५६ ॥ पिङ्गा पिङ्गशता दीप्ता प्रचण्डा सर्वतोमुखी । विदारिणी विश्वरूपा विक्रान्ता भूतभावनी ॥ ५७ ॥ विद्राविणी मोक्षदात्री कालचक्रेश्वरी नटी । तप्तहाटकवर्णा च कृतान्ता भ्रान्तिभञ्जिनी ॥ ५८ ॥ सर्वतेजोमयी भव्या दितिशोककरी कृतिः । महाक्रुद्धा श्मशानस्था कपालस्रगलङ्कृता ॥ ५९ ॥ कालातिकाला कालान्तकरीतिः करुणानिधिः । महाघोरा घोरतरा संहारकरिणी तथा ॥ ६० ॥ अनादिश्च महोन्मत्ता भूतधात्र्यसितेक्षणा । भीष्माकारा च वक्राङ्गी बहुपादैकपादिका ॥ ६१ ॥ कुलाङ्गना कुलाराध्या कुलमार्गरतेश्वरी । दिगम्बरा मुक्तकेशी वज्रमुष्टिर्निरिन्धनी ॥ ६२ ॥ सम्मोहिनी क्षोभकरी स्तम्भिनी वश्यकारिणी । दुर्द्धर्षा दर्पदलनी त्रैलोक्यजननी जया ॥ ६३ ॥ उन्मादोच्चाटनकरी कृत्या कृत्याविघातिनी । विरूपा कालरात्रिश्च महारात्रिर्मनोन्मनी ॥ ६४ ॥ महावीर्या गूढनिद्रा चण्डदोर्दण्डमण्डिता । निर्मला शूलिनी तन्त्रा वज्रिणी चापधारिणी ॥ ६५ ॥ स्थूलोदरी च कुमुदा कामुका लिङ्गधारिणी । धटोदरी फेरवी च प्रवीणा कालसुन्दरी ॥ ६६ ॥ तारावती डमरुका भानुमण्डलमालिनी । एकानङ्गा पिङ्गलाक्षी प्रचण्डाक्षी शुभङ्करी ॥ ६७ ॥ विद्युत्केशी महामारी सूची तूण्डी च जृम्भका । प्रस्वापिनी महातीव्रा वरणीया वरप्रदा ॥ ६८ ॥ चण्डचण्डा ज्वलद्देहा लम्बोदर्यग्निमर्दिनी । महादन्तोल्कादृगम्बा ज्वालाजालजलन्धरी ॥ ६९ ॥ माया कृशा प्रभा रामा महाविभवदायिनी । पौरन्दरी विष्णुमाया कीर्तिः पुष्टिस्तनूदरी ॥ ७० ॥ योगज्ञा योगदात्री च योगिनी योगिवल्लभा । सहस्रशीर्षपादा च सहस्रनयनोज्वला ॥ ७१ ॥ पानकर्त्री पावकाभा परामृतपरायणा । जगद्गतिर्जगज्जेत्री जन्मकालविमोचिनी ॥ ७२ ॥ मूलावतंसिनी मूला मौनव्रतपराङ्मुखी । ललिता लोलुपा लोला लक्षणीया ललामधृक् ॥ ७३ ॥ मातङ्गिनी भवानी च सर्वलोकेश्वरेश्वरी । पार्वती शम्भुदयिता महिषासुरमर्दिनी ॥ ७४ ॥ चण्डमुण्डापहर्त्री च रक्तबीजनिकृन्तनी । निशुम्भशुम्भमथनी देवराजवरप्रदा ॥ ७५ ॥ कल्याणकारिणी काली कोलमांसास्रपायिनी । खड्गहस्ता चर्मिणी च पाशिनी शक्तिधारिणी ॥ ७६ ॥ खट्वाङ्गिनी मुण्डधरा भुशुण्डी धनुरन्विता । चक्रघण्टान्विता बालप्रेतशैलप्रधारिणी ॥ ७७ ॥ नरकङ्कालनकुलसर्पहस्ता समुद्गरा । मुरलीधारिणी बलिकुण्डिनी डमरुप्रिया ॥ ७८ ॥ भिन्दिपालास्त्रिणी पूज्या साध्या परिघिणी तथा । पट्टिशप्रासिनी रम्या शतशो मुसलिन्यपि ॥ ७९ ॥ शिवापोतधरादण्डाङ्कुशहस्ता त्रिशूलिनी । रत्नकुम्भधरा दान्ता छुरिकाकुन्तदोर्युता ॥ ८० ॥ कमण्डलुकरा क्षामा गृध्राढ्या पुष्पमालिनी । मांसखण्डकरा बीजपूरवत्यक्षरा क्षरा ॥ ८१ ॥ गदापरशुयष्ट्यङ्का मुष्टिनानलधारिणी । प्रभूता च पवित्रा च श्रेष्ठा पुण्यविवर्द्धनी ॥ ८२ ॥ प्रसन्नानन्दितमुखी विशिष्टा शिष्टपालिनी । कामरूपा कामगवी कमनीय कलावती ॥ ८३ ॥ गङ्गा कलिङ्गतनया सिप्रा गोदावरी मही । रेवा सरस्वती चन्द्रभागा कृष्णा दृषद्वती ॥ ८४ ॥ वाराणसी गयावन्ती काञ्ची मलयवासिनी । सर्वदेवीस्वरूपा च नानारूपधरामला ॥ ८५ ॥ लक्ष्मीर्गौरी महालक्ष्मी रत्नपूर्णा कृपामयी । दुर्गा च विजया घोरा पद्मावत्यमरेश्वरी ॥ ८६ ॥ वगला राजमातङ्गी चण्डी महिषमर्दिनी । त्रिपुटोच्छिष्टचाण्डाली भारुण्डा भुवनेश्वरी ॥ ८७ ॥ राजराजेश्वरी नित्यक्लिन्ना च जयभैरवी । चण्डयोगेश्वरी राज्यलक्ष्मी रुद्राण्यरुन्धती ॥ ८८ ॥ अश्वारूढा महागुह्या यन्त्रप्रमथनी तथा । धनलक्ष्मीर्विश्वलक्ष्मीर्वश्यकारिण्यकल्मषा ॥ ८९ ॥ त्वरिता च महाचण्डभैरवी परमेश्वरी । त्रैलोक्यविजया ज्वालामुखी दिक्करवासिनी ॥ ९० ॥ महामन्त्रेश्वरी वज्रप्रस्तारिण्यजनावती । चण्डकापालेश्वरी च स्वर्णकोटेश्वरी तथा ॥ ९१ ॥ उग्रचण्डा श्मशानोग्रचण्डा वार्ताल्यजेश्वरी । चण्डोग्रा च प्रचण्डा च चण्डिका चण्डनायिका ॥ ९२ ॥ वाग्वादिनी मधुमती वारुणी तुम्बुरेश्वरी । वागीश्वरी च पूर्णेशी सौम्योग्रा कालभैरवी ॥ ९३ ॥ दिगम्बरा च धनदा कालरात्रिश्च कुब्जिका । किराटी शिवदूती च कालसङ्कर्षणी तथा ॥ ९४ ॥ कुक्कुटी सङ्कटा देवी चपलभ्रमराम्बिका । महार्णवेश्वरी नित्या जयझङ्केश्वरी तथा ॥ ९५ ॥ शबरी(शवरी) पिङ्गला बुद्धिप्रदा संसारतारिणी । विज्ञा महामोहिनी च बाला त्रिपुरसुन्दरी ॥ ९६ ॥ उग्रतारा चैकजटा तथा नीलसरस्वती । त्रिकण्टकी छिन्नमस्ता बोधिसत्वा रणेश्वरी ॥ ९७ ॥ ब्रह्माणी वैष्णवी माहेश्वरी कौमार्यलम्बुषा । वाराही नारसिंही च चामुण्डेन्द्राण्योनिजा ॥ ९८ ॥ चण्डेश्वरी चण्डघण्टा नाकुली मृत्युहारिणी । हंसेश्वरी मोक्षदा च शातकर्णी जलन्धरी ॥ ९९ ॥ इन्द्राणी वज्रवाराही फेत्कारी तुम्बुरेश्वरी । हयग्रीवा हस्तितुण्डा नाकुली मृत्युहारिणी ॥ १०० ॥ स्वरकर्णी ऋक्षकर्णी सूर्पकर्णा बलाबला । महानीलेश्वरी जातवेतसी कोकतुण्डिका ॥ १०१ ॥ गुह्येश्वरी वज्रचण्डी महाविद्या च बाभ्रवी । शाकम्भरी दानवेशी डामरी चर्चिका तथा ॥ १०२ ॥ एकवीरा जयन्ती च एकानंशा पताकिनी । नीललोहितरूपा च ब्रह्मवादिन्ययन्त्रिता ॥ १०३ ॥ त्रिकालवेदिनी नीलकोरङ्गी रक्तदन्तिका । भूतभैरव्यनालम्बा कामाख्या कुलकुट्टनी ॥ १०४ ॥ क्षेमङ्करी विश्वरूपा मायूर्यावेशिनी तथा । कामाङ्कुशा कालचण्डी भीमादेव्यर्धमस्तका ॥ १०५ ॥ धूमावती योगनिद्रा ब्रह्मविष्णुनिकृन्तनी । चण्डोग्रकापालिनी च बोधिका हाटकेश्वरी ॥ १०६ ॥ महामङ्गलचण्डी च तोमरा(तोवरा) चण्डखेचरी । विशाला शक्तिसौपर्णी फेरुचण्डी मदोद्धता ॥ १०७ ॥ कापालिका चञ्चरीका महाकामध्रुवापि च । विक्षेपणी भूततुण्डी मानस्तोका सुदामिनी ॥ १०८ ॥ निर्मूलिनी राङ्कविणी सद्योजाता मदोत्कटा । वामदेवी महाघोरा महातत्पुरुषी तथा ॥ १०९ ॥ ईशानी शाङ्करी भर्गो महादेवी कपर्दिनी । त्र्यम्बकी व्योमकेशी च मारी पाशुपती तथा ॥ ११० ॥ जयकाली धूमकाली ज्वालाकाल्युग्रकालिका । धनकाली घोरनादकाली कल्पान्तकालिका ॥ १११ ॥ वेतालकाली कङ्कालकाली श्रीनग्नकालिका । रौद्रकाली घोरघोरतरकाली तथैव च ॥ ११२ ॥ ततो दुर्जयकाली च महामन्थानकालिका । आज्ञाकाली च संहारकाली सङ्ग्रामकालिका ॥ ११३ ॥ कृतान्तकाली तदनु तिग्मकाली ततः परम् । ततो महारात्रिकाली महारुधिरकालिका ॥ ११४ ॥ शवकाली भीमकाली चण्डकाली तथैव च । सन्त्रासकाली च ततः श्रीभयङ्करकालिका ॥ ११५ ॥ विकरालकाली श्रीघोरकाली विकटकालिका । करालकाली तदनु भोगकाली ततः परम् ॥ ११६ ॥ विभूतिकाली श्रीकालकाली दक्षिणकालिका । विद्याकाली वज्रकाली महाकाली भवेत्ततः ॥ ११७ ॥ ततः कामकलाकाली भद्रकाली तथैव च । श्मशानकालिकोन्मत्तकालिका मुण्डकालिका ॥ ११८ ॥ कुलकाली नादकाली सिद्धिकाली ततः परम् । उदारकाली सन्तापकाली चञ्चलकालिका ॥ ११९ ॥ डामरी कालिका भावकाली कुणपकालिका । कपालकाली च दिगम्बरकाली तथैव च ॥ १२० ॥ उद्दामकाली प्रपञ्चकाली विजयकालिका । क्रतुकाली योगकाली तपःकाली तथैव च ॥ १२१ ॥ आनन्दकाली च ततः प्रभाकाली ततः परम् । सूर्यकाली चन्द्रकाली कौमुदीकालिका ततः ॥ १२२ ॥ स्फुलिङ्गकाल्यग्निकाली वीरकाली तथैव च । रणकाली हूं हूङ्कारनादकाली ततः परम् ॥ १२३ ॥ जयकाली विघ्नकाली महामार्तण्डकालिका । चिताकाली भस्मकाली ज्वलदङ्गारकालिका ॥ १२४ ॥ पिशाचकाली तदनु ततो लोहितकालिका । खर (खग) काली नागकाली ततो राक्षसकालिका ॥ १२५ ॥ महागगनकाली च विश्वकाली भवेदनु । मायाकाली मोहकाली ततो जङ्गमकालिका ॥ १२६ ॥ पुनः स्थावरकाली च ततो ब्रह्माण्डकालिका । सृष्टिकाली स्थितिकाली पुनः संहारकालिका ॥ १२७ ॥ अनाख्याकालिका चापि भासाकाली ततोऽप्यनु । व्योमकाली पीठकाली शक्तिकाली तथैव च ॥ १२८ ॥ ऊर्ध्वकाली अधःकाली तथा चोत्तरकालिका । तथा समयकाली च कौलिकक्रमकालिका ॥ १२९ ॥ ज्ञानविज्ञानकाली च चित्सत्ताकालिकापि च । अद्वैतकाली परमानन्दकाली तथैव च ॥ १३० ॥ वासनाकालिका योगभूमिकाली ततः परम् । उपाधिकाली च महोदयकाली ततोऽप्यनु ॥ १३१ ॥ निवृत्तिकाली चैतन्यकाली वैराग्यकालिका । समाधिकाली प्रकृतिकाली प्रत्ययकालिका ॥ १३२ ॥ सत्ताकाली च परमार्थकाली नित्यकालिका । जीवात्मकाली परमात्मकाली बन्धकालिका ॥ १३३ ॥ आभासकालिका सूक्ष्मकालिका शेषकालिका । लयकाली साक्षिकाली ततश्च स्मृतिकालिका ॥ १३४ ॥ पृथिवीकालिका वापि एककाली ततः परम् । कैवल्यकाली सायुज्यकाली च ब्रह्मकालिका ॥ १३५ ॥ ततश्च पुनरावृत्तिकाली याऽमृतकालिका । मोक्षकाली च विज्ञानमयकाली ततः परम् ॥ १३६ ॥ प्रतिबिम्बकालिका चापि एक(पिण्ड)काली ततः परम् । एकात्म्यकालिकानन्दमयकाली तथैव च ॥ १३७ ॥ सर्वशेषे परिज्ञेया निर्वाणमयकालिका । इति नाम्नां सहस्रं ते प्रोक्तमेकाधिकं प्रिये ॥ १३८ ॥ पठतः स्तोत्रमेतद्धि सर्वं करतले स्थितम् । ॥ सहस्रनाम्नः स्तोत्रस्य फलश्रुतिः ॥ नैतेन सदृशं स्तोत्रं भूतं वापि भविष्यति ॥ १३९ ॥ यः पठेत् प्रत्यहमदस्तस्य पुण्यफलं शृणु । पापानि विलयं यान्ति मन्दराद्रिनिभान्यपि ॥ १४० ॥ उपद्रवाः विनश्यन्ति रोगाग्निनृपचौरजाः । आपदश्च विलीयन्ते ग्रहपीडाः स्पृशन्ति न ॥ १४१ ॥ दारिद्र्यं नाभिभवति शोको नैव प्रबाधते । नाशं गच्छन्ति रिपवः क्षीयन्ते विघ्नकोटयः ॥ १४२ ॥ उपसर्गाः पलायन्ते बाधन्ते न विषाण्यपि । नाकालमृत्युर्भवति न जाड्यं नैव मूकता ॥ १४३ ॥ इन्द्रियाणां न दौर्बल्यं विषादो नैव जायते । अथादौ नास्य हानिः स्यात् न कुत्रापि पराभवः ॥ १४४ ॥ यान् यान् मनोरथानिच्छेत् तांस्तान् साधयति द्रुतम् । सहस्रनामपूजान्ते यः पठेद् भक्तिभावितः ॥ १४५ ॥ पात्रं स सर्वसिद्धीनां भवेत्संवत्सरादनु । विद्यावान् बलवान् वाग्मी रूपवान् रूपवल्लभः ॥ १४६ ॥ अधृष्यः सर्वसत्वानां सर्वदा जयवान् रणे । कामिनीनां प्रियो नित्यं मित्राणां प्राणसन्निभः ॥ १४७ ॥ रिपूणामशनिः साक्षाद्दाता भोक्ता प्रियंवदः । आकरः स हि भाग्यानां रत्नानामिव सागरः ॥ १४८ ॥ मन्त्ररूपमिदं ज्ञेयं स्तोत्रं त्रैलोक्यदुर्लभम् । एतस्य बहवः सन्ति प्रयोगाः सिद्धिदायिनः ॥ १४९ ॥ तान् विधाय सुरेशानि ततः सिद्धीः परीक्षयेत् । ताररावौ पुरा दत्त्वा नाम चैकैकमन्तरा ॥ १५० ॥ तच्च ङेऽन्तं विनिर्दिश्य शेषे हार्दमनुं न्यसेत् । उपरागे भास्करस्येन्दोर्वाप्यथान्यपर्वणि ॥ १५१ ॥ मालतीकुसुमैर्बिल्वपत्रैर्वा पायसेन वा । मधूक्षितद्राक्षया वा पक्वमोचाफलेन वा ॥ १५२ ॥ प्रत्येकं जुहुयात् नाम पूर्वप्रोक्तक्रमेण हि । एवं त्रिवारं निष्पाद्य ततः स्तोत्रं परीक्षयेत् ॥ १५३ ॥ यावत्यः सिद्धयः सन्ति कथिता यामलादिषु । भवन्त्येते न तावन्त्यो दृढविश्वासशालिनाम् ॥ १५४ ॥ ॥ एतत्स्तोत्रस्य प्रयोग विधानम् ॥ परचक्रे समायाते मुक्तकेशो दिगम्बरः । रात्रौ तदाशाभिमुखः पञ्चविंशतिधा पठेत् ॥ १ ॥ परचक्रं सदा घोरं स्वयमेव पलायते । महारोगोपशमने त्रिंशद्वारमुदीरयेत् ॥ २ ॥ विवादे राजजनितोपद्रवे दशधा जपेत् । महादुर्भिक्षपीडासु महामारीभयेषु च ॥ ३ ॥ षष्टिवारं स्तोत्रमिदं पठन्नाशयति द्रुतम् । भूतप्रेतपिशाचादि कृताभिभवकर्मणि ॥ ४ ॥ प्रजपेत् पञ्चदशधा क्षिप्रं तदभिधीयते । तथा निगडबद्धानां मोचने पञ्चधा जपेत् ॥ ५ ॥ बध्यानां प्राणरक्षार्थं शतवारमुदीरयेत् । दुःस्वप्नदर्शने वारत्रयं स्तोत्रमिदं पठेत् ॥ ६ ॥ एवं विज्ञाय देवेशि महिमानममुष्य हि । यस्मिन् कस्मिन्नपि प्राप्ते सङ्कटे योजयेदिदम् ॥ ७ ॥ शमयित्वा तु तत्सर्वं शुभमुत्पादयत्यपि । रणे विवादे कलहे भूतावेशे महाभये ॥ ८ ॥ उत्पातराजपीडायां बन्धुविच्छेद एव वा । सर्पाग्निदस्युनृपतिशत्रुरोगभये तथा ॥ ९ ॥ जप्यमेतन्महास्तोत्रं समस्तं नाशमिच्छता । ध्यात्वा देवीं गुह्यकालीं नग्नां शक्तिं विधाय च ॥ १० ॥ तद्योनौ यन्त्रमालिख्य त्रिकोणं बिन्दुमत् प्रिये । पूर्वोदितक्रमेणैव मन्त्रमुच्चार्य साधकः ॥ ११ ॥ गन्धपुष्पाक्षतैर्नित्यं प्रत्येकं परिपूजयेत् । बलिं च प्रत्यहं दद्यात् चतुर्विंशतिवासरान् ॥ १२ ॥ स्तोत्राणामुत्तमं स्तोत्रं सिद्ध्यन्त्येतावताप्यदः । स्तम्भने मोहने चैव वशीकरण एव च ॥ १३ ॥ उच्चाटने मारणे च तथा द्वेषाभिचारयोः । गुटिकाधातुवादादियक्षिणीपादुकादिषु ॥ १४ ॥ कृपाणाञ्जनवेतालान्यदेहादिप्रवेशने । प्रयुञ्ज्यादिदमीशानि ततः सर्वं प्रसिद्ध्यति ॥ १५ ॥ सर्वे मनोरथास्तस्य वशीभूता करे स्थिताः । आरोग्यं विजयं सौख्यं विभूतिमतुलामपि ॥ १६ ॥ त्रिविधोत्पातशान्तिञ्च शत्रुनाशं पदे पदे । ददाति पठितं स्तोत्रमिदं सत्यं सुरेश्वरि ॥ १७ ॥ स्तोत्राण्यन्यानि भूयांसि गुह्यायाः सन्ति पार्वति । तानि नैतस्य तुल्यानि ज्ञातव्यानि सुनिश्चितम् ॥ १८ ॥ इदमेव तस्य तुल्यं सत्यं सत्यं मयोदितम् । नाम्नां सहस्रं यद्येतत् पठितु नालमन्वहम् ॥ १९ ॥ (सहस्रनाम्नः पाठाशक्तौ वक्ष्यमाणपाठस्य निदेशः ) तदैतानि पठेन्नित्यं नामानि स्तोत्रपाठकः । चण्डयोगेश्वरी चण्डी चण्डकापालिनी शिवा ॥ १ ॥ चामुण्डा चण्डिका सिद्धिकराली मुण्डमालिनी । कालचक्रेश्वरी फेरुहस्ता घोराट्टहासिनी ॥ २ ॥ डामरी चर्चिका सिद्धिविकराली भगप्रिया । उल्कामुखी ऋक्षकर्णी बलप्रमथिनी परा ॥ ३ ॥ महामाया योगनिद्रा त्रैलोक्यजननीश्वरी । कात्यायनी घोररूपा जयन्ती सर्वमङ्गला ॥ ४ ॥ कामातुरा मदोन्मत्ता देवदेवीवरप्रदा । मातङ्गी कुब्जिका रौद्री रुद्राणी जगदम्बिका ॥ ५ ॥ चिदानन्दमयी मेधा ब्रह्मरूपा जगन्मयी । संहारिणी वेदमाता सिद्धिदात्री बलाहका ॥ ६ ॥ वारुणी जगतामाद्या कलातीता चिदात्मिका । नामान्येतानि पठता सर्वं तत् परिपठ्यते ॥ ७ ॥ इत्येतत् कथितं नाम्नां सहस्रं तव पार्वति । उदीरितं फलं चास्य पठनाद् यत् प्रजायते ॥ ८ ॥ निःशेषमवधार्य त्वं यथेच्छसि तथा कुरु । पठनीयं न च स्त्रीभिरेतत् स्तोत्रं कदाचन ॥ ९ ॥ ॥ इति महाकालसंहितायां विश्वमङ्गलकवचान्तं पूजापद्धतिप्रभूतिकथनं नाम दशमः पटलान्तर्गतं गुह्यकालिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
very good post and nice website, good information ameya jaywant narvekar Neelam jaywant narvekar jaywant mangesh narvekar Reply