॥ कालिकोपनिषत् ॥

अथ हैनां ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीमाप्नोति सुभगां कामरेफेन्दिरां समष्टिरूपिणीमादौ तदन्वकर्तुर्बीजद्वयकूर्चबीजं तद्धोमषष्ठस्वरबिन्दुमेलनरूपं तदनु भुवना द्वयभुवना तु व्योमज्वलनेन्दिराशून्यमेलनरूपा दक्षिणे कालिके वेत्यभिमुखं गता तदनु बीजसप्तकमुच्चार्य बृहद्भानुजायामुच्चरेत् ।
अयं सर्वमन्त्रोत्तमोत्तमं सकृज्जपन् स तु विश्वेश्वरः, स तु नारीश्वरः, स तु वेदेश्वरः, स सर्वगुरुः, सर्वनमस्यः, सर्वेषु वेदेष्वधिश्रितो भवति ।
स सर्वेषु तीर्थेषु स्नातो भवति, सर्वेषु यज्ञेषु दीक्षितो भवति, स स्वयं सदाशिवः ।


त्रिकोणं त्रिकोणं त्रिकोणं पुनश्चैव त्रिकोणं त्रिकोणं ततो वसुदलं सार्धचन्द्रकेसरं युग्मशो विलिख्य सम्भृतं भूपुरैकेन युतं सर्वज्ञेनाभ्यर्थ्य तस्मिन् देवीदले रेखायां विन्यस्य, ध्येया अभिनवजलदवदना घनस्तनी कुटिलदंष्ट्रा शवासना वराभयखड्गमुण्डमण्डितहस्ता कालिका, ध्येया काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी विप्रचित्तेति षट्कोणगाः ।
उग्रा उग्रप्रभा दीप्ता नीला घना बलाका मात्रा मुद्रा मितेति नवकोणगाः । इत्थं पञ्चदशकोणगाः।
ब्राह्मी नारायणी माहेश्वरी चामुण्डा कौमारी अपराजिता वाराही नारसिंहीत्यष्टपत्रगाः ।
चतुष्कोणगाश्चत्वारो देवा माधवरुद्रविनायकसौराः । चतुर्दिक्षु इन्द्र-यम-वरुण-कुबेराः ।
देवीं सर्वाङ्गनादौ सम्पूज्य भगोदकेन तर्पणं पञ्चमकारेण पूजनमतस्याः सपर्यायाः किमधिकं न शक्यं ब्रह्मादिपदं हेयं हेलया प्राप्नोति, एतस्या एकद्वित्रिक्रमेण मनवो भवन्ति ।
नारिमित्रादिलक्षणमत्र वर्तते । अमुष्य मन्त्रपाठकस्य गतिरस्ति, नान्यस्येह गतिरस्ति, एतस्यास्तारामनोर्दुर्गामनोर्वा सिद्धिः।
इदानीं तु सर्वाः स्वप्नभूता असितैव जागर्ति इमामसिताज्ञामुपनिषदं यो वाऽधीते सोऽपुत्रः पुत्रीभवति, निर्धनो धनायति धर्मार्थकाममोक्षाणां पात्रीयत्यन्यस्य वरदो दष्ट्वा जगन्मोहयति क्रोधस्तं जहाति गङ्गादितीर्थक्षेत्राणामग्निष्टोमादियज्ञानां फलभागीयति ।।
॥ इत्याथर्वणवेदे सौभाग्यकाण्डे कालिकोपनिषत् समाप्त ॥

 

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

One comment on “कालिकोपनिषत् 02

  • very good post and nice website, good information ameya jaywant narvekar
    Neelam jaywant narvekar
    jaywant mangesh narvekar

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.