June 20, 2019 | aspundir | 1 Comment ॥ श्रीकामकलाकालीसहस्रनामस्तोत्रम् ॥ ॥ देव्युवाच ॥ त्वत्तः श्रुतं मया नाथ देव देव जगत्पते । देव्याः कामकलाकाल्या विधानं सिद्धिदायकम् ॥ १ ॥ त्रैलोक्यविजयस्यापि विशेषेण श्रुतो मया । तत्प्रसङ्गेन चान्यासां मन्त्रध्याने तथा श्रुते ॥ २ ॥ इदानीं जायते नाथ शुश्रुषा मम भूयसी । नाम्नां सहस्रे त्रिविधमहापापौघहारिणि ॥ ३ ॥ श्रुतेन येन देवेश धन्या स्यां भाग्यवत्यपि । ॥ श्रीमहाकाल उवाच ॥ भाग्यवत्यसि धन्यासि सन्देहो नात्र भाविनि ॥ ४ ॥ सहस्रनामश्रवणे यस्मात्ते निश्चितं मनः । तस्या नाम्नां तु लक्षाणि विद्यन्ते चाथ कोटयः ॥ ५ ॥ तान्यल्पायुर्मतित्वेन नृभिर्द्धारयितुं सदा । अशक्यानि वरारोहे पठितुं च दिने दिने ॥ ६ ॥ तेभ्यो नामसहस्राणि साराण्युद्धृत्य शम्भुना । अमृतानीव दुग्धाव्धेर्भूदेवेभ्यः समर्पितं ॥ ७॥ कानिचित्तत्र गौणानि गदितानि शुचिस्मिते । रूढाण्याकारहीनत्वाद् गौणानि गुणयोगतः ॥ ८॥ राहित्याद्रूढिगुणयोस्तानि साङ्केतकान्यपि । त्रिविधान्यपि नामानि पठितानि दिने दिने ॥ ९ ॥ राधयन्तीप्सितान(राधयन्तीक्षितान)र्थान्ददत्यमृतमत्ययं । क्षपयन्त्यपमृत्युं च मारयन्ति द्विपोऽखिलान् ॥ १० ॥ घ्नन्ति रोगानथोत्पातान्मङ्गलं कुर्वतेन्वहं । किमुतान्यत् सदा सन्निधापयत्यऽर्थिकामपि ॥ ११ ॥ त्रिपुरघ्नोऽप्यदो नामसहस्रं पठति प्रिये । तदाज्ञयाप्यहमपि कीर्तयामि दिनेदिने ॥ १२ ॥ भवत्यपीदमस्मत्तः शिक्षित्वा तु पठिष्यति । भविष्यति च निर्णीतं चतुर्वर्गस्य भाजनं ॥ १३ ॥ मनोन्यतो निराकृत्य सावधाना निशामय । नाम्नां कामकलाकाल्याः सहस्रं मुक्तिदायकं ॥ १४ ॥ ॐ अस्य कामकलाकालीसहस्रनामस्तोत्रस्य श्रीत्रिपुरघ्नऋषिः अनुष्टुप् छन्दः त्रिजगन्मयरूपिणी भगवती श्रीकामकलाकाली देवता क्लीं बीजं स्फ्रों शक्तिः हुं कीलकं क्ष्रौं तत्त्वं श्रीकामकलाकालीसहस्रनामस्तोत्रपाठे जपे विनियोगः । ॐ तत्सत् ॥ ॐ क्लीं कामकलाकाली कालरात्रिः कपालिनी । कात्यायनी च कल्याणी कालाकारा करालिनी ॥ १५ ॥ उग्रमूर्तिर्महाभीमा घोररावा भयङ्करा । भूतिदा भयहन्त्री च भवबन्धविमोचनी ॥ १६ ॥ भव्या भवानी भोगाढ्या(द्या) भुजङ्गपतिभूषणा । महामाया जगद्धात्री पावनी परमेश्वरी ॥ १७ ॥ योगमाता योगगम्या योगिनी योगिपूजिता । गौरी दुर्गा कालिका च महाकल्पान्तनर्तकी ॥ १८ ॥ अव्यया जगदादिश्च विधात्री कालमर्द्दिनी । नित्या वरेण्या विमला देवाराध्यामितप्रभा ॥ १९ ॥ भारुण्डा कोटरी शुद्धा चञ्चला चारुहासिनी । अग्राह्यातीन्द्रियाऽगोत्रा चर्च्चरोर्ध्वशिरोरुहा(चर्चरोर्द्धशिरोरुहा) ॥ २० ॥ कामुकी कमनीया च श्रीकण्ठमहिपी शिवा । मनोहरा माननीया मतिदा मणिभूषणा ॥ २१ ॥ श्मशाननिलया रौद्रा मुक्तकेश्यट्टहासिनी । चामुण्डा चण्डिका चण्डी चार्वङ्गी चरितोज्ज्वला ॥ २२ ॥ घोरानना धूम्रशिखा कम्पना कम्पितानना । वेपमानतनुर्भीदा निर्भया बाहुशालिनी ॥ २३ ॥ उल्मुकाक्षी सर्प्पकर्णी विशोका गिरिनन्दिनी । ज्योत्स्नामुखी हास्यपरा लिङ्गालिङ्गधरा सती ॥ २४ ॥ अविकारा महाचित्रा चन्द्रवक्त्रा मनोजवा । अदर्शना पापहरा श्यामला मुण्डमेखला ॥ २५॥ मुण्डावतंसिनी नीला प्रपन्नानन्ददायिनी । लघुस्तनी लम्वकुचा घू(धू)र्णमाना हराङ्गना ॥ २६ ॥ विश्वावासा शान्तिकरी दीर्घकेश्यरिखण्डिनी । रुचिरा सुन्दरी कम्रा मदोन्मत्ता मदोत्कटा ॥ २७ ॥ अयोमुखी वह्निमुखी क्रोधनाऽभयदेश्वरी । कुडम्बिका साहसिनी खङ्गकी रक्तलेहिनी ॥ २८ ॥ विदारिणी पानरता रुद्राणी मुण्डमालिनी । अनादिनिधना देवी दुर्न्निरीक्ष्या दिगम्बरा ॥ २९ ॥ विद्युज्जिह्वा महादंष्ट्रा वज्रतीक्ष्णा महास्वना । उदयार्क्कसमानाक्षी विन्ध्यशैलसमाकृतिः ॥ ३० ॥ नीलोत्पलदलश्यामा नागेन्द्राष्टकभूषिता । अग्निज्वालकृतावासा फेत्कारिण्यहिकुण्डला ॥ ३१ ॥ पापघ्नी पालिनी पद्मा पुण्या पुण्यप्रदा परा । कल्पान्ताम्भोदनिर्घोषा सहस्रार्क्कसमप्रभा ॥ ३२ ॥ सहस्रप्रेतराट् क्रोधा सहस्रेशपराक्रमा । सहस्रधनदैश्वर्या सहस्राङ्घ्रिकराम्बिका ॥ ३३ ॥ सहस्रकालदुष्प्रेक्ष्या सहस्रेन्द्रियसञ्चया । सहस्रभूमिसदना सहस्राकाशविग्रहा ॥ ३४ ॥ सहस्रचन्द्रप्रतिमा सहस्रग्रहचारिणी । सहस्ररुद्रतेजस्का सहस्रब्रह्मसृष्टिकृत् ॥ ३५ ॥ सहस्रवायुवेगा च सहस्रफणकुण्डला । सहस्रयन्त्रमथिनी सहस्रोदधिसुस्थिरा ॥ ३६ ॥ सहस्रबुद्धकरुणा महाभागा तपस्विनी । त्रैलोक्यमोहिनी सर्वभूतदेववशङ्करी ॥ ३७ ॥ सुस्निग्धहृदया घण्टाकर्णा च व्योमचारिणी । शङ्खिनी चित्रिणीशानी कालसङ्कर्षिणी जया ॥ ३८ ॥ अपराजिता च विजया कमला कमलाप्रदा । जनयित्री जगद्योनिर्हेतुरूपा चिदात्मिका ॥ ३९ ॥ अप्रमेया दुराधर्षा ध्येया स्वच्छन्दचारिणी । शातोदरी शाम्भविनी पूज्या मानोन्नताऽमला ॥ ४० ॥ ओंकाररूपिणी ताम्रा बालार्कसमतारका । चलज्जिह्वा च भीमाक्षी महाभैरवनादिनी ॥ ४१ ॥ सात्विकी राजसी चैव तामसी घर्घराऽचला । माहेश्वरी तथा ब्राह्मी कौमारी मानिनीश्वरा ॥ ४२ ॥ सौपर्णी वायवी चैन्द्री सावित्री नैर्ऋती कला । वारुणी शिवदूती च सौरी सौम्या प्रभावती ॥ ४३ ॥ वाराही नारसिंही च वैष्णवी ललिता स्वरा । मैत्र्यार्य्यम्णी च पौष्णी च त्वाष्ट्रो वासव्युमारतिः ॥ ४४ ॥ राक्षसी पावनी रौद्री दास्री रोदस्युदुम्बरी । सुभगा दुर्भगा दीना चञ्चुरीका यशस्विनी ॥ ४५ ॥ महानन्दा भगानन्दा पिच्छिला भगमालिनी । अरुणा रेवती रक्ता शकुनी श्येनतुण्डिका ॥ ४६ ॥ सुरभी नन्दिनी भद्रा वला चातिबलामला । उलुपी लम्बिका खेटा लेलिहानान्त्रमालिनी ॥ ४७॥ वैनायिकी च वेताली त्रिजटा भृकुटी सती(मती) । कुमारी युवती प्रौढा विदग्धा घस्मरा तथा ॥ ४८ ॥ जरती रोचना भीमा दोलमाला पिचिण्डिला । अलम्बाक्षी कुम्भकर्णी कालकर्णी महासुरी ॥ ४९ ॥ घण्टारवाथ गोकर्णी काकजङ्घा च मूषिका । महाहनुर्महाग्रीवा लोहिता लोहिताशनी ॥ ५० ॥ कीर्तिः सरस्वती लक्ष्मीः श्रद्धा बुद्धिः क्रिया स्थितिः । चेतना विष्णुमाया च गुणातीता निरञ्जना ॥ ५१ ॥ निद्रा तन्द्रा स्मिता छाया जृम्भा क्षुदशनायिता । तृष्णा क्षुधा पिपासा च लालसा क्षान्तिरेव च ॥ ५२ ॥ विद्या प्रज्ञा स्मृतिः कान्तिरिच्छा मेधा प्रभा चितिः । धरित्री धरणी धन्या धोरणी धर्मसन्ततिः ॥ ५३ ॥ हालाप्रिया हाररतिर्हारिणी हरिणेक्षणा । चण्डयोगेश्वरी सिद्धि कराली परिडामरी ॥ ५४ ॥ जगदान्या जनानन्दा नित्यानन्दमयी स्थिरा । हिरण्यगर्भा कुण्डलिनी ज्ञानं धैर्यञ्च खेचरी ॥ ५५ ॥ नगात्मजा नागहारा जटाभाराप्रतर्द्दिनी । खङ्गिनी शूलिनी चक्रवती वाणवती क्षितिः ॥ ५६ ॥ घृणिधर्त्री नालिका च कर्त्री मत्यक्षमालिनी । पाशिनी पशुर्हस्ता च नागहस्ता धनुर्धरा ॥ ५७ ॥ महामुद्गरहस्ता च शिवापोतधरापि च । नारखप्पर्रिणी लम्बत्कचमुण्डप्रधारिणी ॥ ५८ ॥ पद्मावत्यन्नपूर्णा च महालक्ष्मीः सरस्वती । दुर्गा च विजया घोरा तथा महिषमर्द्दिनी ॥ ५९ ॥ धनलक्ष्मी जयप्रदाश्चाश्वारूढा जयभैरवी । शूलिनी राजमातङ्गी राजराजेश्वरी तथा ॥ ६० ॥ त्रिपुटोच्छिष्टचाण्डाली अघोरा त्वरितापि च । राज्यलक्ष्मीर्जयमहाचण्डयोगेश्वरी तथा ॥ ६१ ॥ गुह्या महाभैरवी च विश्वलक्ष्मीररुन्धती । यन्त्रप्रमथिनी चण्डयोगेश्वर्यप्यलम्बुषा ॥ ६२ ॥ किराती महाचण्डभैरवी कल्पवल्लरी । त्रैलोक्यविजया सम्पत्प्रदा मन्थानभैरवी ॥ ६३ ॥ महामन्त्रेश्वरी वज्रप्रस्तारिण्यङ्गचर्पटा । जयलक्ष्मीश्चण्डरूपा जलेश्वरी कामदायिनी ॥ ६४॥ स्वर्णकूटेश्वरी रुण्डा मर्म्मरी बुद्धिवर्द्धिनी । वार्त्ताली चण्डवार्त्ताली जयवार्त्तालिका तथा ॥ ६५ ॥ उग्रचण्डा श्मशानोग्रा चण्डा वै रुद्रचण्डिका । अतिचण्डा चण्डवती प्रचण्डा चण्डनायिका ॥ ६६ ॥ चैतन्यभैरवी कृष्णा मण्डली तुम्बुरेश्वरी । वाग्वादिनी मुण्डमध्यमत्यनर्घ्या पिशाचिनी ॥ ६७ ॥ मञ्जीरा रोहिणी कुल्या तुङ्गा पूर्णेश्वरी वरा । विशाला रक्तचामुण्डा अघोरा चण्डवारुणी ॥ ६८ ॥ धनदा त्रिपुरा वागीश्वरी च जयमङ्गला । दैगम्बरी कुञ्जिका च कुडुक्का कालभैरवी ॥ ६९ ॥ कुक्कुटी सङ्कटा वीरा कर्प्पटा भ्रमराम्बिका । महार्णवेश्वरी भोगवती सङ्केश्वरी तथा ॥ ७० ॥ पुलिन्दी शवरी म्लेच्छी पिङ्गला शवरेश्वरी । मोहिनी सिद्धिलक्ष्मीश्च बाला त्रिपुरसुन्दरी ॥ ७१ ॥ उग्रतारा चैकजटा महानीलसरस्वती । त्रिकण्टकी छिन्नमस्ता महिषघ्नी जयावहा ॥ ७२ ॥ हरसिद्धानङ्गमाला फेत्कारी लवणेश्वरी । चण्डेश्वरी नाकुली च हयग्रीवेश्वरी तथा ॥ ७३ ॥ कालिन्दी वज्रवाराही महानीलपताकिका । हंसेश्वरी मोक्षलक्ष्मीर्भूतिनी जातरेतसा ॥ ७४ ॥ शातकर्णा महानीला वामा गुह्येश्वरी भ्रमिः । एकानंशाऽभया तार्क्षी बाभ्रवी डामरी तथा ॥ ७५ ॥ कोरङ्गी चर्च्चिका विन्ना संशिका ब्रह्मवादिनी । त्रिकालवेदिनी नीललोहिता रक्तदन्तिका ॥ ७६ ॥ क्षेमङ्करी विश्वरूपा कामाख्या कुलकुट्टनी । कामाङ्कुशा वेशिनी च मायूरी च कुलेश्वरी ॥ ७७ ॥ इभाक्षी(इभ्राक्षी) घोणकी(द्योनकी) शार्ङ्गी भीमा देवी वरप्रदा । धूमावती महामारी मङ्गला हाटकेश्वरी ॥ ७८ ॥ किराती शक्तिसौपर्णी बान्धवी चण्डखेचरी । निस्तन्द्रा भवभूतिश्च ज्वालाघण्टाग्निमर्द्दिनी ॥ ७९ ॥ सुरङ्गा कौलिनी रम्या नटी चारायणी धृतिः । अनन्ता पुञ्जिका जिह्वा धर्माधर्मप्रवर्तिका ॥ ८० ॥ व(ब)न्दिनी व(ब)न्दनीया च वे(बे)लाऽहस्करिणी सुधा । अरणी माधवी गोत्रा पताका वाङ्मयी श्रुतिः ॥ ८१ ॥ गूढा त्रिगूढा विस्पष्टा मृगाङ्का च निरिन्द्रिया । मेनानन्दकरी वोध्री त्रिनेत्रा वेदवाहना ॥ ८२ ॥ कलस्वना तारिणी च सत्यासत्यप्रियाऽजडा । एकवक्त्रा महावक्त्रा बहुवक्त्रा घनानना ॥ ८३ ॥ इन्दिरा काश्यपी ज्योत्स्ना शवारूढा तनूदरी । महाशङ्खधरा नागोपवीतिन्यक्षताशया ॥ ८४ ॥ निरिन्धना धराधारा व्याधिघ्नी कल्पकारिणी । विश्वेश्वरी विश्वधात्री विश्वेशी विश्ववन्दिता ॥ ८५ ॥ विश्वा विश्वात्मिका विश्वव्यापिका विश्वतारिणी । विश्वसंहारिणी विश्वहस्ता विश्वोपकारिका ॥ ८६ ॥ विश्वमाता विश्वगता विश्वातीता विरोधिता । त्रैलोक्यत्राणकर्त्री च कूटाकारा कटङ्कटा ॥ ८७ ॥ क्षामोदरी च क्षेत्रज्ञा क्षयहीना क्षरवर्ज्जिता । क्षपा क्षोभकरी क्षेम्याऽक्षोभ्या क्षेमदुघा क्षिया ॥ ८८ ॥ सुखदा सुमुखी सौम्या स्वङ्गा सुरपरा सुधीः । सर्वान्तर्यामिनी सर्वा सर्वाराध्या समाहिता ॥ ८९ ॥ तपिनी तापिनी तीव्रा तपनीया तु नाभिगा । हैमी हैमवती ऋद्धिर्वृद्धिर्ज्ञानप्रदा नरा ॥ ९० ॥ महाजटा महापादा महाहस्ता महाहनुः । महाबला महारोषा महाधैर्य्या महाघृणा ॥ ९१ ॥ महाक्षमा पुण्यपापध्वजिनी घुर्घुरारवा । डाकिनी शाकिनी रम्या शक्तिः शक्तिस्वरूपिणी ॥ ९२ ॥ तमिस्रा गन्धराशान्ता दान्ता क्षान्ता जितेन्द्रिया । महोदया ज्ञानिनीच्छा विरागा सुखिताकृतिः ॥ ९३ ॥ वासना वासनाहीना निवृत्तिर्न्निर्वृतिः कृतिः । अचला हेतुरुन्मुक्ता जयिनी संस्मृतिः च्युता ॥ ९४ ॥ कपर्द्दिनी मुकुटिनी मत्ता प्रकृतिरूर्जिता । सदसत्साक्षिणी स्फीता मुदिता करुणामयी ॥ ९५ ॥ पूर्वोत्तरा पश्चिमा च दक्षिणाविदिगुद्गता(गूद्हता) । आत्मारामा शिवारामा रमणी शङ्करप्रिया ॥ ९६ ॥ वरेण्या वरदा वेणी स्तम्भिण्याकर्षिणी तथा । उच्चाटनी मारणी च द्वेषिणी वशिनी मही ॥ ९७ ॥ भ्रमणी भारती भामा विशोका शोकहारिणी । सिनीवाली कुहू राकानुमति पद्मिनीतिहृत् ॥ ९८ ॥ सावित्री वेदजननी गायत्र्याहुतिसाधिका । चण्डाट्टहासा तरुणी भूर्भुवःस्वःकलेवरा ॥ ९९ ॥ अतनुरतनुप्राणदात्री मातङ्गगामिनी । निगमाब्धिमणिः पृथ्वी जन्ममृत्युजरौषधी ॥ १०० ॥ प्रतारिणी कलालापा वेद्याच्छेद्या वसुन्धरा । (अ)प्रक्षुण्णा वासिता कामधेनुर्वाञ्छितदायिनी ॥ १०१ ॥ सौदामिनी मेघमाला शर्वरी सर्वगोचरा । डमरुर्डमरुका च निःस्वरा परिनादिनी ॥ १०२ ॥ आहतात्मा हता चापि नादातीता विलेशया । पराऽपारा च पश्यन्ती मध्यमा वैखरी तथा ॥ १०३॥ प्रथमा च जघन्या च मध्यस्थान्तविकाशिनी । पृष्ठस्था च पुरःस्था च पार्श्वस्थोर्ध्वतलस्थिता ॥ १०४॥ नेदिष्ठा च दविष्ठा च बर्हिष्ठा च गुहाशया । अप्राप्या बृंहिता पूर्णा पुण्यैर्वेद्या ह्यनामया(पुण्यैर्नविदनामया) ॥ १०५ ॥ सुदर्शना च त्रिशिखा बृहती सन्ततिर्विभा(र्विना) । फेत्कारिणी दीर्घस्रुक्का भावना भववल्लभा ॥ १०६ ॥ भागीरथी जाह्नवी च कावेरी यमुना स्मया(ह्वया) । सिप्रा गोदावरी वेण्या(वेल्ला) विपाशा नर्मदा धुनी ॥ १०७ ॥ त्रेता स्वाहा सामिधेनी स्रुक्स्रुवा च ध्रु(क्र)वावसुः । गर्विता मानिनी मेना नन्दिता नन्दनन्दिनी ॥ १०८ ॥ नारायणी नारकघ्नी रुचिरा रणशालिनी । आधारणाधारतमा धर्मा ध्वन्या धनप्रदा ॥ १०९ ॥ अभिज्ञा पण्डिता मूका बालिशा वागवादिनी । ब्रह्मवल्ली मुक्तिवल्ली सिद्धिवल्ली विपह्नवी ॥ ११० ॥ आह्लादिनी जितामित्रा साक्षिणी पुनराकृतिः । किर्म्मरी सर्वतोभद्रा स्वर्वेदी मुक्तिपद्धतिः ॥ १११ ॥ सुषमा चन्द्रिका वन्या कौमुदी कुमुदाकरा । त्रिसन्ध्याम्नायसेतुश्च चर्च्चाऽर्छापा(छाया)रिनैष्ठिकी ॥ ११२ ॥ कला काष्ठा तिथिस्तारा संक्रातिर्विषुवत्तथा । मञ्जुनादा महावल्गु भग्नभेरीस्वनाऽरटा ॥ ११३ ॥ चिन्ता(चित्रा) सुप्तिः सुषुप्तिश्च तुरीया तत्त्वधारणा । मृत्युञ्जया मृत्युहरी मृत्युमृत्युविधायिनी ॥ ११४ ॥ हंसी परमहंसी च बिन्दुनादान्तवासिनी । वैहायसी त्रैदशी च भैमीवासातनी तथा ॥ ११५ ॥ दीक्षा शिक्षा अनूढा च कङ्काली तैजसी तथा । सुरी दैत्या दानवी च नरी नाथा सुरीत्वरी ॥ ११६ ॥ माध्वी स्वना(खना) स्वरा(खरा) रेखा निष्कला निर्ममा मृतिः । महती विपुला स्वल्पा क्रूरा क्रूराशयापि च ॥ ११७ ॥ उन्माथिनी धृतिमती वामनी कल्पचारिणी । वाडवी वडवाश्वोढा कोला पितृवनालया ॥ ११८ ॥ प्रसारिणी विशारा च दर्पिता दर्पणप्रिया । उत्तानाधोमुखी सुप्ता वञ्चन्याकुञ्चनी त्रुटिः ॥ ११९ ॥ क्रादिनी यातनादात्री दुर्गा दुर्गर्तिनाशिनी । धराधरसुता धीरा धराधरकृतालया ॥ १२० ॥ सुचरित्री तथात्री च पूतना प्रेतमालिनी । रम्भोर्वशी मेनका च कलिहृत्काल-कृत्कशा(कृद्दशा) ॥ १२१ ॥ हरीष्टदेवी हेरम्बमाता हर्य्यक्षवाहना । शिखण्डिनी कोण्डपि(यि)नी वेतुण्डी मन्त्रमय्यपि ॥ १२२ ॥ वज्रेश्वरी लोहदण्डा दुर्विज्ञेया दुरासदा । जालिनी जालपा याज्या भगिनी भगवत्यपि ॥ १२३ ॥ भौजङ्गी तुर्वरा बभ्रु महनीया च मानवी । श्रीमती श्रीकरी गार्द्धृी सदानन्दा गणेश्वरी ॥ १२४ ॥ असन्दिग्धा शाश्वता च सिद्धा सिद्धेश्वरीडिता । ज्येष्ठा श्रेष्ठा वरिष्ठा च कौशाम्बी भक्तवत्सला ॥ १२५ ॥ इन्द्रनीलनिभा नेत्री नायिका च त्रिलोचना । वार्हस्पत्या भार्गवी च आत्रेय्याङ्गिरसी तथा ॥ १२६ ॥ धुर्य्याधिहर्त्री धारित्री विकटा जन्ममोचिनी । आपदुत्तारिणी दृप्ता प्रमिता मितिवर्जिता ॥ १२७ ॥ चित्ररेखा चिदाकारा चञ्चलाक्षी चलत्पदा । वलाहकी पिङ्गसटा मूलभूता वनेचरी ॥ १२८ ॥ खगी करन्धमा ध्माक्ष्यी(क्ष) संहिता केररीन्धना । अपुनर्भविनी वान्तरिणी च यमगञ्जिनी ॥ १२९ ॥ वर्णातीताश्रमातीता मृडानी मृडवल्लभा । दयाकरी दमपरा दंभहीना दृतिप्रिया ॥ १३०॥ निर्वाणदा च निर्बन्धा भावाभावविधायिनी । नैःश्रेयसी निर्विकल्पा निर्बीजा सर्वबीजिका ॥ १३१ ॥ अनाद्यन्ता भेदहीना बन्धोन्मूलिन्यबाधिता । निराभासा मनोगम्या सायुज्यामृतदायिनी ॥ १३२ ॥ ॥ फल-श्रुति ॥ इतीदं नामसाहस्रं नामकोटिशताधिकं । देव्याः कामकलाकाल्या मया ते प्रतिपादितम् ॥ १३३ ॥ नानेन सदृशं स्तोत्रं त्रिषु लोकेषु विद्यते । यद्यप्यमुष्य महिमा वर्णितुं नैव शक्यते ॥ १३४ ॥ प्ररोचनातया कश्चित्तथापि विनिगद्यते । प्रत्यहं य इदं देवि कीर्त्तयेद्वा शृणोति वा ॥ १३५ ॥ गुणाधिक्यमृते कोऽपि दोषो नैवोपजायते । अशुभानि क्षयं यान्ति जायन्ते मङ्गलान्यथ ॥ १३६ ॥ पारत्रिकामुष्मिकौ द्वौ लोकौ तेन प्रसाधितौ । ब्राह्मणो जायते वाग्मी वेदवेदाङ्गपारगः ॥ १३७ ॥ ख्यातः सर्वासु विद्यासु धनवान् कविपण्डितः । युद्धे जयी क्षत्रियः स्याद्दाता भोक्ता रिपुञ्जयः ॥ १३८ ॥ आहर्ता चाश्वमेधस्य भाजनं परमायुषाम् । समृद्धो धन धान्येन वैश्यो भवति तत्क्षणात् ॥ १३९ ॥ नानाविधपशूनां हि समृद्ध्या स समृद्धते । शूद्रः समस्तकल्याणमाप्नोति श्रुतिकीर्तनात् ॥ १४० ॥ भुङ्क्ते सुखानि सुचिरं रोगशोकौ परित्यजन् । एवं नार्य्यपि सौभाग्यं भर्तृहार्दं सुतानपि ॥ १४१ ॥ प्राप्नोति श्रवणादस्य कीर्तनादपि पार्वति । स्वस्वाभीष्टमथान्येऽपि लभन्तेऽस्य प्रसादतः ॥ १४२ ॥ प्राप्नोति धार्मिको धर्मानर्थानाप्नोति दुर्गतः । मोक्षार्थिनस्तथा मोक्षं कामुकाः कामिनीं वराम् ॥ १४३ ॥ युद्धे जयं नृपाः क्षीणाः कुमार्यः सत्पतिं तथा । आरोग्य रोगिणश्चापि तथा वंशार्थिनः सुतान् ॥ १४४ ॥ जयं विवादे कलिकृत्सिद्धीः सिद्धीछुरुत्तमाः । नियुक्ता बन्धुभिः सङ्गं गतायुश्चायुषाञ्चयम् ॥ १४५ ॥ सदा य एतत्पठति निशीथे भक्तिभावितः । तस्या साध्यमथाप्राप्यं त्रैलोक्ये नैव विद्यते ॥ १४६ ॥ कीर्तिं भोगान् स्त्रियः पुत्रान् धनं धान्यं हयान्गजान् । ज्ञातिश्रैष्ठ्यं पशून्भूमिं राजवश्यञ्च मान्यताम् ॥ १४७ ॥ लभते प्रेयसि क्षुद्रजातिरप्यस्य कीर्तनात् । नास्य भीतिर्न्न दौर्भाग्यं नाल्पायुष्यं न रोगिता ॥ १४८ ॥ न प्रेतभूताभिभवो न दोषो ग्रहजस्तथा । जायते पतितो नैव क्वचिदप्येष सङ्कटे ॥ १४९ ॥ यदीच्छसि परं श्रेयस्तर्त्तुं सङ्कटमेव च । पठान्वहमिदं स्तोत्रं सत्यं सत्यं सुरेश्वरि ॥ १५० ॥ न सास्ति भूतले सिद्धिः कीर्तनाद्या न जायते । शृणु चान्यद्वरारोहे कीर्त्यमानं वचो मम ॥ १५१ ॥ महाभूतानि पञ्चापि खान्येकादश यानि च । तन्मात्राणि च जीवात्मा परमात्मा तथैव च ॥ १५२ ॥ सप्तार्णवाः सप्तलोका भुवनानि चतुर्दश । नक्षत्राणि दिशः सर्वाः ग्रहाः पातालसप्तकम् ॥ १५३ ॥ सप्तद्वीपवती पृथ्वी जङ्गमाजङ्गमं जगत् । चराचरं त्रिभुवनं विद्याश्चापि चतुर्श ॥ १५४ ॥ सांख्ययोगस्तथा ज्ञानं चेतना कर्मवासना । भगवत्यां स्थितं सर्वं सूक्ष्मरूपेण बीजवत् ॥ १५५ ॥ सा चास्मिन् नामसाहस्रे स्तोत्रे तिष्ठति बद्धवत् । पठनीयं विदित्वैवं स्तोत्रमेतत्सुदुर्लभम् ॥ १५६ ॥ देवीं कामकलाकालीं भजन्तः सिद्धिदायिनीम् । स्तोत्रं चादः पठन्तो हि साधयन्तीप्सितान् स्वकान् ॥ १५७ ॥ ॥ इति महाकालसंहितायां कामकलाखण्डे द्वादशपटले श्रीकामकलाकालीसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
very good post and nice website, good information ameya jaywant narvekar Neelam jaywant narvekar jaywant mangesh narvekar Reply